________________
२०४ ]
सिद्धान्तकौमुदी। [द्वन्द्वसमास'देवताद्वन्द्वे च' (सू १२३६ ) इत्युभयपदवृद्धिः । अलौकिके विग्रहवाक्ये प्रा. नङमीत्वं च बाधित्वा इत् । वृद्धौ किम्-आग्नेन्द्रः। 'नेन्द्रस्य परस्य' (सू १२४०) इत्युत्तरपदवृद्धिप्रतिषेधः । 'विष्यौ न' (वा ३६०१)। आमावैष्णवम् । १२६ दिवो द्यावा । (६-३-२६) देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी। चावासामा। 'तद्धितेष्वचामादेः' इत्यादरचो वृद्धिविधानात् कथमुत्तरपदस्यादिवृद्धिरित्यत आहदेवताद्वन्द्वे चेत्युभयपदवृद्धिरिति । नन्वग्नेरिकारस्य इकारविधिर्व्यर्थ इत्यत आह-आनङमीत्त्वं च बाधित्वेति । आग्निमारुतमित्यत्रानङ आग्निवारुणमित्यत्र ईत्त्वस्य च बाधनार्थमनेरिकोरस्य पुनरिकारविधानमित्यर्थः । ननु ‘समर्थानां प्रथमावा' इत्यत्र ‘परिनिष्ठितात् तद्धितोत्पत्तिः' इति वक्ष्यते । तथा च अमामरुतौ देवते अस्येति, अग्नीवरुणो देवते अस्येति च विग्रहे अनामरुच्छन्दाद् अग्नीवरुणशब्दाच अानडीत्त्वाभ्यां परिनिष्ठिताद् देवताद्वन्द्वात् 'साऽस्य देवता' इत्यया तद्धित उत्पद्यते । ततस्तनिमित्तकोभयपदवृद्धिः । ततः 'इवृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानकीत्त्वयोः कथम् 'इवृद्धौ' इत्यनेन बाधः ? युगपत्प्रवृत्तावेव बाध्यबाधकभावाभ्युपगमात् । उक्तं च भाष्ये-'भुक्तवन्तं प्रति मा भुक्या इत्युक्ते, किं तेन कृतं स्यात्' इति । अत आह-अलौकिके विग्रहवाक्य इति । अग्निमरुत् औ देवते अस्येति, अग्निवरुण औ देवते अस्येति च तद्धितालौकिकविग्रहवाक्ये आनडीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीम् उत्तरपदस्य वृद्धिमत्त्वं नास्ति, तद्धिताभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः । प्राग्नेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ । 'देवताद्वन्द्वे च' इत्यान, आद्गुणः । अनेन्द्रौ देवते अस्येत्यानेन्द्रः। 'साऽस्य देवता' इत्या । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाभावाद् 'इवृद्धौ' इति नेति भावः । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिमाशङ्कयाह-नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्निश्च विष्णुश्च श्रमाविष्णू । 'देवताद्वन्द्व च' इत्यानङ् । अग्नाविष्णू देवते अस्येत्यर्थे 'साऽस्य देवता' इत्यण । आग्नावैष्णवं हविः । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिः । इत्त्वाभावादानव । दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे-देवताद्वन्द्व इति । द्यावाभूमी इति । द्योश्च भूमिश्चेति विग्रहः । द्यावाक्षामा इति । संभवादतो व्याचष्टे-वृद्धिमत्युत्तरपद इति । आनङमीत्वं च बाधित्वेति । यद्यपि वृद्धेः प्रागेव श्रानीत्वयोरन्तरगत्वात्प्रवृत्तिरस्ति, तथापि 'परिहृल्यापवादविषय. मुत्सर्मोऽभिनिविशते' इति न्यायादानडीत्वे न भवत इति भावः । आमावैष्णव