________________
प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०५ ६२७ दिवसश्च पृथिव्याम् । (६-३-३०) दिव इत्येव, चायावा । प्रादेशेऽकारोचारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । योश्च पृथिवी च दिवस्पृथिब्यौ, चावापृथिव्यौ। 'बन्दसि दृष्टाविधिः। द्यावा चिदस्मै पृथिवी' । 'दिवस्पृथिग्योररतिः' इत्यत्र पदकारा विसर्ग पठन्ति । १२८ उषासोषसः। (६-३-३१) उषस्शब्दस्योषासादेशो देवताद्वन्दे । उपासासूर्यम् । ६२६ मातरपितरावुदीचाम् । (६-३-३२) मातरपितरौ । उदीचां किम्-मातापितरौ । ६३० द्वन्द्वाच्चुदषहान्तात्समाहारे । (५-४-१०६) चवर्गान्ताहषहान्ताच 'द्यावाक्षामा रुक्मो अन्तर्विभाति' इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्योश्च क्षामा चेति विग्रहः । चामाशब्दो भूमिपर्यायो वेदे। तत्र द्वन्द्वे दिवो द्यावादेशः। षष्ठयास्तु 'सुपां सुलुक-' इति डादेशः, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिखर इति वेदभाष्ये स्पष्टम् । दिवसच पृथिव्याम् । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, खरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह-चादिति । तथा च दिवशन्दस्य दिवसादेशो द्यावादेशश्च स्यात् पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । दिवस्पृथिव्या इत्यत्र सकारादकारस्याश्रवणादिवसादेशस्य सकारान्तत्वावश्यंभावाद् आदेशे सकारादकारोचारणस्य किं प्रयोजनमित्यत आह-प्रादेशेऽकारोच्चारणमिति । सामर्थ्यात् 'ससजुषो रुः' इति रुत्वं नेति भावः । ननु 'द्यावा चिदस्मै पृथिवी सन्तमेते' इत्यत्र दिवशब्दपृथिवीशब्दयोः कथं द्वन्द्वः ? कथं वा दिवो द्यावादेशः ? उत्तरपदस्य चिदस्मै इत्यनेन व्यवहितत्वादित्यत आह-छन्दसि दृष्टानुविधिरिति । भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः। यथा दृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति । 'दिवस्पृथिव्योः' इत्यवाहे विसर्ग पठन्तीत्यर्थः । पदकारा इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथा च विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुतत्वात् । उषासोषसः । उषासासूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितराबुदीचाम् । उदीचा मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशन्दस्यारगदेशो निपात्यते । मातापितरा. विति । अरभावे 'आनकृतः-' इत्याना । द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं मिति । इत्वाभावादानच भवति । रुत्वं मा भूदिति । अकारे सति सकारस्य श्रव णंभवति, तेन प्रयोगे विकारामावोऽनुमीयत इति भावः । विसर्गमिति । तथा च 'कचिद्विकारो न' इत्येवानुमेयं लक्ष्यानुरोधादिति भावः । उषासासूयमिति । उपाश्च सूर्यश्च तयोः समाहारः । मातरपितरौ । मातृशब्दस्या