________________
प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३५ प्सायां वुन्लोपश्च । (५-४-१) लोपवचनमनैमित्तिकत्वार्थम् । भवो न स्थानिवत् । 'पादः पत्' (सू ४१४)। तद्धितार्थ-' (सू ७२८) इति समासे कृते प्रत्ययः । बुधयं सियामेव । द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकम् , अन्यत्रापि दर्शनात्' (बा ३१४)। द्विमोदकिकाम् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दामनीयौ, दामनयः, कौण्डोपरथा इत्यादौ 'दामन्यादित्रिगर्तषष्ठात्' इति छस्य लुक् । पार्शवः, पार्शवी, पर्शवः, यौधेया इत्यत्र पर्वादियौधेयाषणमोलृक् । श्राभिजित्यः, आमिजित्यो, अभिजितः, विदभृत इत्यादौ अभिजिद्विदमृदित्यादिविहितस्य यो लुगिति भावः ।
__ इति तद्धितेषु पञ्चमाध्यायस्य तृतीयपादः समाप्तः।
अथ पञ्चमाध्यायस्य चतुर्थपादप्रारम्भः । पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च । पादश्च शतं चेति समाहारद्वन्द्वाद् लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । संख्यावाचकशब्दपूर्वकात् पादशब्दात् शतशब्दाच वीप्साविशिष्टार्थवृत्तः स्वार्थे वुन्प्रत्ययः स्यात् , प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः। ननु वुनः अकादेशे सति 'यस्येति च' इत्येव लोपसिद्धेरिह लोपविधिर्व्यर्थ इत्यत आह लोपवचनमनैमित्तिकत्वार्थमिति । 'यस्येति च' इति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वात् 'पादः पत्' इति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति। नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाभावात्कथमिह 'तद्धितार्थ-' इति समास इति वाच्यम् , वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशतिका. मिति । द्वे द्वे शते ददातीति विग्रहः। पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथम् , पादशतभिनव्यावृत्त्यर्थत्वादित्यत आह अन्यत्रापि दर्शनादिति । एवं विदमृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदमृत-शालावत-शैखावतादिभ्यो यञ् । पादशतस्य संख्यादेः। पादशतस्य किम् , द्वौ द्वौ माषौ ददाति । संख्यादेरिति किम् , पादं पादं ददाति। वीप्सायामिति किम् , पादौ ददाति । अनैमित्तिकत्वार्थमिति । निमित्ते भवो नैमित्तिकः, अध्यात्मादित्वाठञ् । तद्धितार्थ इति । यद्यपि प्रकृत्युपाधिर्वीप्सा, तथापि वुना द्योत्येऽति तद्धितार्थो भवत्येवेति भावः । ददातीति । समर्पणमात्रमिह ददातेरर्थः, न तु परखत्वापादनपर्यन्तम् । तथात्वे हि उत्तरसूत्रविषयत्वं स्यात् । केचित्तु व्यवसृजतेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः । अन्यत्रापि दर्शनादिति । द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानाभातिप्रसङ्ग इति