________________
६३४ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक च्छालावच्छिखावच्छमीवदूर्णावच्छ्रमदणो यञ् । (५-३-११८) अभिजिदादिभ्योऽएणन्तेभ्यः स्वार्थे यम्स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावस्यः । शेखावत्यः । शामीवत्यः । और्णावत्यः । श्रीमत्यः । २०७२ ज्यादयस्तद्राजाः। (५-३-११६) 'पूगाम्भ्यः -' (सू २०६६) इत्यारभ्य उना एतस्संज्ञाः स्युः। तेनास्त्रियां बहुषु लुक् । खोहितध्वजाः, कपोतपाकाः, कौआयनाः, ग्राभायना इत्यादि । २०७३ पादशतस्य संख्यादेवींढक् । तदन्तादपत्यसङ्घविवक्षायामनेन अञ् । अित्त्वम् अायुदात्तत्वफ नकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायां 'तद्वाजस्य -' इत्यत्रो लुक् । 'क्तिः' इत्यन्तोदात्तं फलम् । अभिजिद्विदभृत् । अभिजित्, विदभृत् , शालावत् , शिखावत्, शमीवत्, ऊर्णावत्, श्रुमद् एषां समाहारद्वन्द्वात् पञ्चम्या लुक् । 'अण' इति प्रत्ययत्वात् तदन्तग्रहणम् , तदाह अभिजिदादिभ्य इति । अत्र 'श्रा युधजीविसङ्घादिति निवृत्तम्' इति वृत्तिः। श्राभिजित्य इति । अभिजितोऽपत्यं शाभिजितः । अपत्येऽण् । श्राभिजित एव आभिजित्यः । वैदभृत्य इति । विदमृतोऽपत्यं वैदभृतः। स एव वैदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः। शैखावत्य इति । शिखावतोऽपत्यं शेखावतः, स एव शेखावत्यः । शामीवत्य इति । शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति । ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः। श्रीमत्य इति । श्रुमतो. ऽपत्यं श्रीमतः, स एव श्रीमत्यः । अत्र अभिजिदित्यादिशब्देषु यत्रः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहे 'गोत्रचरणात्-' इति वुजि 'आपत्यस्य च । इति यलोपे आभिजितक इति भवति । 'अपत्याणन्तेभ्य एवायं यः । तेन आभिजितो मुहूर्त इत्यादौ न यञ्' इति भाष्ये स्पष्टम् । ज्यादयस्तद्राजाः। लोहितध्वजा इति । 'पूगात्-' इति विहितस्य व्यस्य तद्राजत्वाद् बहुत्वे लुक् । कपोत. पाकाः, कौश्चायनाः, ब्राध्नायना इति । 'बातच्फओ:-' इति विहितस्य व्यस्य लुक् । इत्यादीति । क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। श्रायुधजीवी ते ज्यटो लुक् । काप्नुपपत्तिरिति । यौधेय इति । युध्यतेऽसौ युधा । युधेरिर पधलक्षणः कः । युधाया अपत्यं 'यचः' इति ढक् । तदन्तात्संघविवक्षायामनेनाञ् । तेन यौधेय इति आद्युदात्तं भवति । किं च यौधेयस्याङ्को लक्षणं वा यौधेयः । 'संघ कलक्षण-' इत्यअन्तादण् । एवं यौधेयादिषु ये ढगन्ताः शौकेयादयस्तेषु सर्वेषु प्रयोजनद्वयमूह्यम् । यौधेया इति । अलो लुक् , अन्तोदात्तम् । न च 'न प्राच्यभर्ग-' इत्यादिना निषेधः शङ्कयः, स्त्रियामेव तनिषेधात् । प्राभिजित्य इति । श्राभिजितश् ब्दादणन्ताद्यञ् ।