________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
'हुत्रिगर्तषष्ठस्तु कौएडोपरथदाण्डकी । कौष्टुकिजलमानिश्च ब्राह्मगुप्तोऽथ जालकिः ॥'
दामनीयः । दामनीयौ । दामनयः । श्रलपि - श्रौलपीयः । त्रिगर्त - कौण्डोपरथीयः । दाण्डकीयः । २०७० पर्श्वादियौधेयादिभ्यो ऽत्र । (५-३-११७) आयुधजीविसंघवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः । २०७१ अभिजिद्विदभृ
1
1
[ ६३३
आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रोष्टुकिः, जालमानिः, ब्राह्मगुप्तः, जालकिः इत्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः । जालकिरिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौराडोपरथब्राह्मगुप्तशब्दौ शिवाद्यन्तौ । शेष इवन्तः । दामादिगणमुदाहरति दामनीय इति । दामनिरेव दामनीयः । श्रलपीति । प्रकृतिप्रदर्शना ।
पीय इति । श्रलपिशब्दात् स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकी इति । दाडकिशब्दात् स्वार्थे छः । क्रोष्टुकीयः, जालमानीयः, ब्राह्मगुप्तीयः, जालकीय इत्यप्युदाहार्यम् । पर्श्वादियौधेयादि । एभ्य इति । पर्श्वादिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव इति । पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचिकादपत्येष्वर्थेषु ‘यमगध-' इत्यण् । ततोऽपत्यसङ्घविवक्षायामनेन प्रणिति भावः । पर्शव इति । अपत्य सङ्घबहुत्वविवक्षायां प्रकृतस्याणोऽपि तद्राजत्वाल्लुक्, 'ज्यादयस्तद्राजा ः ' इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थे 'द्व्यचः' इति त्रिगर्तस्तेभ्य इत्यर्थः । त्रिगर्तवर्गषष्ठकाः के इत्याकाङ्क्षायामाह आहुत्रिगर्तषष्ठांश्चेति । अत्र जानकयस्त्रिगर्तवर्गः तेषु च त्रिगर्तषष्ठेषु प्रथमपञ्चमौ कौण्डोपरथब्राह्मगुप्तशब्दौ शिवाद्यन्तौ शेषास्त्वियन्ताः । केचित्तु तद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति । कौण्डोपरथीय इति । बहुवचने तु कौराडोपरथा दाण्डकय इत्यादि । पार्शव इति । पर्शुरिति जनपदशब्दस्ततोऽपत्ये 'द्यमगध-' इत्यण् । बहुत्वे तद्राजत्वाल्लुक् । पुनः संघविवक्षायामनेनाग् । अस्याप्यणो बहुत्वे तद्राजत्वाल्लुक् । तदाह पर्शव इति । ननु पर्शुरिति यो जनपदशब्दस्तस्मादेवानेन स्वार्थेऽ विधीयताम्, अपत्यवाचिपर्शुशब्दात्संघविवक्षायामण्विधौ तु स्वार्थिकत्वं न सिध्येदिति चेत् । अत्राहुः - केवलः पर्शुशब्द एव जनपदवाची, न त्वणन्त इति जनपदवाचिनः स्वार्थेऽण् न विधीयते, किं तु 'धमगध-' इत्यणः 'तद्राजस्य बहुषु -' इत्यादिना लुकि बह्वपत्यवाचिपर्शशब्दादेव स्वार्थे विधीयते स्वार्थश्चात्र संघ एव । न च पशुशब्दस्य संघवाचित्वं नेति शङ्खयम्, बहुपत्यवाचित्वे संघवाचित्वध्रौव्यादिति न
1