________________
६३६ ]
सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक२०७४ दण्डव्यवसर्गयोश्च । (५-४-२) वुनस्यात् । अयोप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकां व्यवसृजति ददातीरथैः । २०७५ स्थूलादिभ्यः प्रकारवचने कन् । (५-४-३) जातीयरोऽपवादः । स्थूल कः । अणुकः । 'चञ्चबृहतोरुपसंख्यानम्' (वा ३३१५) । चञ्चरकः । बृहत्कः । 'सुराया अहौ' (ग स् १३०) । सुरावर्णोऽहिः सुरकः । २०७६ अनत्यन्तगतो तात् । (५-४-४) छिन्नकम् । भिन्नकम् । अभिन्नकम् । २००७ न सामितदुदाहृत्य दर्शयति द्विमोदकिकामिति । द्वौ द्वौ मोदको ददातीति विग्रहः । दण्डव्यवसर्गयोश्च । वुन् स्यादिति । संख्यादेः पादशताद् दण्डव्यवसगेयोर्गम्ययोर्वन् स्यात्प्रकृतेरन्तलोपश्चेत्यर्थः । दण्डनं दण्डः । बलात्कृल द्रव्यग्रहणम् । व्यवसर्गो दानम् । ननु पूर्वेण सिद्धे किमर्थमिदमित्यत आह अवीपमामिति । द्वी पादौ दण्डित इति । बलात्कृत्य प्राहित इत्यर्थः । स्थूलादिभ्यः । प्रकारो भेदः सादृश्यं च, व्याख्यानात् । तद्वति वर्तमानाद्यथायोगं कन्नित्यर्थः । जातीयरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, तु प्रकारमात्रे इति सूचितम् । चञ्चत्क इति । चञ्चधातुश्चलने। अचञ्चन्नपि यश्च चन्निव दृश्यते स चञ्चत्कः । यथा स्पन्दमानस्वच्छजलमध्यवर्ती मणिः । बृहत्क इति। अबृहनपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यासामविशेषो वा । सुराया अहाविति । गणसूत्रमिदम् । प्रकारवचने कन्निति शेषः । सुराया अहावेवेति निमार्थमिदम् । सुरक इति । "केऽणः' इति ह्रस्वः । अनत्यन्तगतौ क्तात् । अत्यन्तगतिः भावः । दण्डव्यवसर्ग । दण्डनं दण्डः । दण्डश्चुरादित्वाद्भावे घ।। अत्राप्युदा. हरणे 'तद्धितार्थ-' इति समासः।स्त्रीलिङ्गं च तद्धितार्थः । यद्वा प्रकृत्यर्थ एव तद्धितार्थः, खार्थिकत्वाद् वुनः। द्वौ पादौ दण्डित इति । देवदत्तेन यज्ञदत इति शेषः । दण्डेरप्रधाने कर्मणि क्त इति यज्ञदत्त इत्यत्र प्रथमा । द्वौ पादावि यत्र द्विपदिकामित्यत्र च द्वितीया भवति । 'दराडेग्रहणार्थे' इति तु द्विकर्मकेयूक्तम् । त्था च द्विपदिकाकर्मकर्मकग्रहणविषयीभूतो यज्ञदत्त इत्यादिरर्थ इति नव्याः । स्थूलादिभ्यः। प्रकारो भेदः सादृश्यं च । उभयत्रापि यथासंभवं कन् । जातीयरोऽपवाद इति । तेनायमपि तद्वदेव प्रकारवति भवति, न तु प्रकारमात्रे इत्युक्तं भवति । चञ्चदबृहतो. रिति । एतावपि स्थूलादिष्वेव पठितव्याविति भावः । चञ्चत्क इति । चञ्चति. श्चलनकर्मा । चञ्चन्नेव कश्चिञ्चच्चत्कः । एवं बृहद्विशेषो बृहत्कः । यद्वा अचञ्चन्नबृहन्नपि प्रभाविशेषाच्चञ्चन्निव बृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः, बृहत्मः । सुरक इति । 'केऽणः' इति हखः । छिन्नकमिति । ईषच्छिन्नमित्यर्थः । क्तप्रकृति