SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४१ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ६३७ वचने । ( ५-४-५ ) सामिपर्याय उपपदे क्लान्तान कन् । सामिकृतम् । अर्धकृतम् । अनस्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन्न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् । २०७८ बृहत्या आच्छादने । ( ५-४ - ६ ) कन्स्यात् । ' द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा' इत्यमरः । ‘आच्छादने' किम्- बृहती छन्दः । २०७६ षडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाभ्युत्तरपदात्खः । ( ५-४-७ ) स्वार्थे । श्रषडक्षीणो अशेषावयवसंबन्धः, तदभावः अनत्यन्तगतिः, तस्यां गम्यमानायां क्लान्तात्कन्नित्यर्थः । छिन्नकमिति । किश्चिदवयवावच्छेदेन छिन्नमित्यर्थः । न सामिवचने । वचनग्रहणं पर्यायलाभार्थमिति मत्वा आह सामिपर्याय उपपद इति । सामिकृतमिति । सामीत्यव्ययमर्थे । ' सामि' इति समासः । श्रर्धकृतमिति । अर्धं कृतमिति कर्मधारयः । सामीत्यस्य क्रियाविशेषणत्वेन कारकत्वात् समुदायस्य क्लान्तत्वम्, कृद्ग्रहणे गतिकारकपूर्वस्यापि प्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यैवाभिहितत्वाद् 'उक्तार्थानामप्रयोगः' इति न्यायेन पूर्वसूत्रविहितस्य कनः प्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते अनत्यन्तगतेरिति । परिहरति इदमेवेति । तथापीति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्ययमनत्यन्तगताविति कनः प्रतिषेधः, किं तर्हि, अत्यन्तस्वार्थिकस्य कनः, तत्र च इदमेव ज्ञापकम् । अन्यथा तद्वैयर्थ्यादिति भावः । बहुतरकमिति । बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् । 'तमबाद्यन्तात् स्वार्थे कन् वक्तव्यः' इति वचनेन यावादित्वाद्वा स्वार्थे कना बहुतरकं सुकरतरकमित्यादि सिद्धमिति तदाशयः । बृहत्या श्राच्छादने । कन् इति शेषः । बृहत्येव बृहतिका, उत्तरीयं वासः, तदाह द्वौ प्रावारेति । अमरवाक्यमिदम् । षडक्ष | स्वार्थ इति । शेषपूरणमिदम् । श्रषडक्ष, आशितङ्ग, अलङ्कर्मन् वाच्यया क्रियया कप्रत्ययवाच्यस्य साधनस्य व्याप्तिरत्यन्तगतिः, सेह नास्ति । न सामिवचने । सामि श्रर्थ उच्यते येन तत्सामिवचनमिति व्युत्पत्त्या 'वचनग्रहणं पर्यायार्थम्' इत्याह सामिपर्याय इति । सामिकृतमिति । 'सामि' इति समासः । अर्धकृतमिति । विशेषणसमासो बहुव्रीहिर्वा । प्रकृत्यैवेति । सामिवचनेनैवेत्यर्थः 1 ज्ञापयतीति । अयं भावः - 'न सामिवचने' इत्यनेन 'अनत्यन्तगतौ -' इति कनो न निषेधः । सामिकृतादिभ्यस्तस्य प्राप्त्यभावात् तेभ्योऽसमासे सामिपदेनैव अनत्यन्तगतेर्योतनात् समासेभ्यस्तु क्लान्तत्वाभावाच्च । न च कृद्ग्रहणपरिभाषया समासस्य क्लान्तत्वमस्तीति शङ्कयम्, सामिशब्दस्य गतिकारकत्वाभावात् । तस्मात् स्वार्थिक एव कन् निषिध्यत इति । इदमेव निषेधवचनं क्वचित्स्वार्थिकं कनं ज्ञापयतीति । , , 6
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy