________________
६३८] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकमन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । प्राशिता गावोऽस्मिमिति प्राशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । प्रलं कर्मणे अलङ्कर्मीणः । अलम्पुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वाथिकाः प्रत्यया नित्यमिष्यन्ते'। 'तमबादयः प्राक्कनः । म्यादयः प्राग्वुनः। प्रामाअलम्पुरुष एभ्यः अध्युत्तरपदाच स्वार्थे खः स्यादित्यर्थः । अषडक्षीणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिः युक्तिभिः क्रियमाणं निधोरणम् । अविद्यमानानि षड् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः । 'बहुव्री हौ सक्थ्यक्ष्णोः' इति षच् । तदन्तादनेन स्वार्थ खः। द्वाभ्यामेवेति । पुरुषाभ्यामिति शेषः ।
आशिता इति । 'अश भोजने' इत्यस्माद् ‘ाशितः कर्ता' इति ज्ञापकाकर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति । 'र्यादयो ग्लानाद्यर्थे' इति चतुर्थीसमासात्खः, टिलोपः । अलम्पुरुषीण इति । अलं पुरुषायेति विग्रहः । मातृभोगीण इत्यादाविव अषडक्षीणादौ णत्वम् । ‘पदव्यवायेऽपि' इति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात् । ईश्वराधीन इति । 'यस्मादधिकम्-' इति ईश्वरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः। ततः स्वार्थे खः । 'समर्थानाम्-' इत्यतो वाग्रहणानुवृत्त्या अस्य खस्य वैकल्पिकत्वभ्रमं वारर ति नित्योऽयं
ख इति । उत्तरेति । 'विभाषाच्चेः-' इत्युत्तरसूत्रे 'समर्थानाम्-'इल तो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञा यत इत्यर्थः । नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मण इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम् , तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवा म्यप्रायत्वात् । प्रसङ्गादाह अन्येऽपीति । इण्यन्त इति । भाष्यकृतेति शेष । तमबादयः प्राकन इति । 'अतिशायने तमप्-' इत्यारभ्य 'अवक्षेपणे कन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ज्यादयः प्राग्वुन इति । 'पूग ज्योऽयामणीअषडक्षीण इति । अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिः । अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते । 'बहुव्रीही सक्थ्यक्ष्णोः-' इति षच्, तदन्तादनेन खः । मन्त्रो मन्त्रणम् । आशितंगवीनमिति । आपूर्वादश्नोतेः 'आशितः कत' इति ज्ञापकाकर्तरि क्तः, ण्यन्तात्कमणि वा । उभयापि प्रभूतयवसमिति फलितोऽर्थः । अलंकर्मीण इति । अलंकर्म अलंपुरुषेति 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' इति समासः । अलंपुरुषीण इति । प्रतिमल्लादिः । ईश्वराधीन इति । अधिश दः शौण्डादिरित्युक्तम् । तमबादय इति । 'अतिशायने तमप्-' इत्यादयः । पाकन इति । 'अवक्षेपणे कन्' इति विहितात् । ज्यादय इति । 'पूगाभ्यो ग्रामणीपूर्वात्'