________________
प्रकरणम् ४१] बालमनोरमा-तत्वबोधिनीसहिता। [६३६ दयः प्राङ्मयटः । 'बृहतीजात्यन्ताः समासान्ताच' इति भाष्यम् । २०८० विभाषाञ्चरदिक् स्त्रियाम् । (५-४-८) अदिक्सीवृत्तरत्रस्यन्ताप्रातिपदि. कास्खः स्याद्वा स्वार्थे । प्राक-प्राचीनम् । प्रत्यक्-प्रतीचीनम् । अवाक्-प्रवाची. नम् । 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः' इत्यमरः । भवन्तमवतीति अर्वाक, पूर्वात्' इत्यारभ्य 'पादशतस्य संख्यादेर्वीप्सायां वुन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्मयट इति । 'किमेत्तिक व्ययघादाम्-' इत्यारभ्य 'तत्प्रकृतवचने मयट्' इत्यतः प्राग्विहिता इत्यर्थः । वृहतीजात्यन्ता इति । बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तु 'जात्य- . न्ताच्छ बन्धुनि' इति छो लक्ष्यते । बहुवचननिर्देशात् पाशबादयोऽपि 'षष्ठया रूप्य च' इत्यन्ता गृह्यन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्याः, नतु पाशबादयोऽपि । 'बृहतीजात्यन्ताः' इति बहुवचनं तु 'बृहत्या आच्छादने' इति 'जात्यन्ताच्छ बन्धुनि' इति च सूत्रयोर्मध्यगतेन 'अषडक्ष-' इति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः । 'विभाषाचेः' इति उत्तरसूत्रे - खविधौ विभाषाग्रहणं तु तस्यापि बृहतीजात्यन्तरालवर्तित्वाविशेषाद् नित्यत्वे प्राप्ते विकल्पार्थम् । अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणादिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेखरे स्थितम् । विभाषाञ्चेरदिनियाम् । अदिस्त्रियामिति कर्मधारयगर्भो नञ्तत्पुरुषः । तदाह अदिक्लीवृत्तेरिति । प्रागिति । 'अञ्चलृक्' इति लुप्ता. स्तात्यन्तमिदम् । प्राचि देशे इत्यर्थे प्राचीनमिति खान्तमिदं स्वभावादाधेयपरम् । स्वभावादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याहृतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाभावात् प्राचीना अाम्राः, प्राचीना वाटी, प्राचीनं इत्यादयः । प्राग्वुन इति। 'पादशतस्य संख्यादेः' इति विहितात् । आमादय इति । 'किमेत्तिव्ययघादामु-' इत्यादयः। प्राङ्मयट इति । 'तत्प्रकृतवचने मयट्' इत्यतः प्रागित्यर्थः । बृहतीजात्यन्ता इति । बृहतीशब्देन 'बृहत्या श्राच्छादने' इति विहितः कन् उपलक्ष्यते । जात्यन्तशब्देन 'जात्यन्ताच्च-' इति च्छः। बहुवचननिर्देशात्पाशबादयो गृह्यन्ते । यो हि वैयाकरणपाशादिशब्दैरर्थः प्रतीयते नासौ प्रकृतिमात्रेण प्रतीयत इति तेऽपि तमबादिवन्नित्या एवेति स्थितमाकरे । कन्छौ मुक्त्वा मूले बृहतीमात्रप्रयोगो जात्यन्तमात्रप्रयोगश्च कृतः, स तु अवाचकोऽप्यार्षग्रन्थानुवादकत्वान्न दोषाय । विभाषाश्चेर । दिक् चासौ स्त्री चेति दिक्स्त्री, तत्र प्रतिषेधः, न तु दिशि स्त्रियां च, स्त्रीलिङ्गकवचननिर्देशात् । प्राचीनमिति । 'अचः'