SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ६४० ] सिद्धान्तकौमुदी । [तद्धितेषु स्वार्थिक 1 अर्वाचीनम् । 'श्रदिस्त्रियाम्' किम्-प्राची दिक्, उदीची दिक् । 'दिग्ग्रहणम्' किम् - प्राचीना ब्राह्मणी । 'स्त्रीग्रहणम्' किम् - प्राचीनं ग्रामादाम्राः | २०८१ जात्यन्ताच्छ बन्धुनि । ( ५-४-६ ) ब्राह्मणजातीयः । 'बन्धुनि' किम्ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु । २०८२ स्थानान्ताद्विभाषा सस्थानेनेति चेत् । ( ५-४ - १०) सस्थानेन तुल्येन चेरस्थानान्तमर्थवदित्यर्थः । वनमिति भवतीत्याहुः | अर्वन्तमञ्चतीति वक्ष्यन् अर्वच्छन्दं विवृगोति निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति । स्त्रियामित्येतावतैव प्राची दिगित्यत्रातिप्रसङ्गनिरासात्किं तेनेति प्रश्नः । व्याप्तिपरिहारार्थमित्याह प्राचीना ब्राह्मणीति । नेयं दिग्रपा स्त्री, किंतु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति । प्रदिर्श त्येतावतैव प्राचीना ब्राह्मणीत्यत्राव्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभाष्ये श्रयं प्रयोगः स्थितः । अत्र प्राच्यां दिशीत्यर्थे लुतास्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वाद् अस्त्रीति खो भवेत्येवेति भावः । जात्यन्ताच्छ बन्धुनि । छति लुप्तप्रथमाकम् । जातिशब्दान्तात् प्रातिपदिकाद्वन्धुनि वर्तमानात् स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुनाब्दो द्रव्यवाचीति वक्ष्यति । तथा च बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षणादिति फलितम् । ब्राह्मणजातीय इति । ब्राह्मणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राह्मणजातिः शोभनेति । ब्राह्मणत्वजातिरित्यर्थः । बध्यते ब्राह्मणवादिजातिर्व्यज्यतेऽस्मिन्निति बन्धु द्रव्यम् । 'शृस्वस्निहि-' इत्यादिना श्रधिकरणे उप्रत्ययः । तदाह जातेर्व्यञ्जकं द्रव्यं बन्ध्विति । श्राप्तपर्यायस्तु बन्धुशब्दो नेह गृह्यते, बन्धुनीति इत्यकारलोपे कृते 'चौ' इति दीर्घः । एवमग्रे क्वचिदूह्यम् । प्राचीना ब्राह्मणीति । प्रकर्षेणाञ्चतीति प्राचीनेत्येवं क्रियानिमित्तको वा देशकालनिमित्तको वा श्रयं शब्दो ब्राह्मण्यां वर्तते, न तु दिशीति प्रतिषेधाभावः । प्राचीनमिति । प्राच्यां दिर्शात्यर्थे ‘दिक्शब्देभ्यः-’ इत्यस्तातिः 'अञ्चेर्लुक्' इति लुक् । 'लुक्तद्धितलुकि ' इति ङीपो लुक् । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वात् स्त्रीत्वाभावः । खे तु कृते स्व भावान्नपुंसकत्वम् । ब्राह्मणजातीय इति । कयोरितिवद्भावप्रधानो ब्राह्मणशब्दः, तस्य जातिशब्देन सह बहुव्रीहिः । ब्राह्मणत्वजात्याधारभूतः पिण्ड इत्यर्थः । ब्राह्मणजातिरिति । षष्ठीतत्पुरुषः । भावप्रधानेन सह कर्मधारयो वा । जातेर्व्यञ्जकमिति । बध्यते जातिरस्मिन्निति बन्धुः । ‘स्वस्तिहि - ' इत्यादिना श्रधिकरणे प्रत्ययः । रूढोऽपि बन्धुशब्द आप्तपर्यायः पुंल्लिङ्गोऽस्ति, तथापि स नेह गृह्यते । 'बन्धुनि' इति नपुंसक
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy