SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६४१ पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः । 'सस्थानेन' किम्-गोस्थानम् । २०५३ अनुगादिनष्ठक् । (५-४-१३) अनुगदतीत्यनुगादी । स एव भानुगादिकः । २०८४ विसारिणो मत्स्ये । (५-४-१६) अपस्यात् । वैसारिणः । 'मत्स्ये' इति किम्-विसारी देवदत्तः । २०८५ संख्यायाः क्रियाभ्यावृत्तिगणने नपुंसकनिर्देशादिति भावः। स्थानान्तात् । सस्थानेनेत्यस्य विवरणं तुल्येनेति । इतिशब्दादर्थवदिति लभ्यते। तुल्यरूपेणार्थेन यदि स्थानान्तं शब्दस्वरूपमर्थव. द्भवति, तदा स्थानान्तात् छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात् स्थानान्तात् छो वा स्यादिति यावत् । पितृस्थानीय इति । स्थानं पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः। अत्र तुल्यत्वाप्रतीतेन च्छः। "किमेत्तिङव्यय-' इत्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् । 'अमु च च्छन्दसि' इति तु वैदिकप्रक्रियायां व्याख्यास्यते । अनुगादिनष्ठक् । स्वार्थ इति शेषः । 'आमादयः प्राङ्मयटः' इत्युक्तेः ठगादयो नित्या एंव प्रत्ययाः। अनुगादीति । 'सुप्यजातो-' इति णिनिः । प्रकृति प्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम् । प्रानुगादिक इति। 'नस्तद्धिते'इति टिलोपः। इह क्रमेण च 'स्त्रियाम्' इति अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते। विसारिणो मत्स्ये । 'अणिनुणः' इति पूर्वसूत्राद् अरिणत्यनुवर्तते, तदाह अण् स्यादिति । मत्स्ये विद्यमानाद् विसारिन्शब्दात् स्वार्थे अण् स्यादित्यर्थः। वैसारिण इति। 'इनण्यनपत्ये' इति प्रकृतिभावाडिलोपोन।संख्यायाःअभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिगृह्येत, तदा चतु. निर्देशादिति भावः । संस्थानेनेत्यस्यैव व्याख्यानं तुल्येनेति । पितृस्थानीय इति । स्थानमत्र संबन्धविशेषः । पदमिति यस्य प्रसिद्धिः। पितुरिव स्थानमस्य पितृस्थानः । पितृतुल्य इत्यर्थः । गोः स्थानमिति । तिष्ठन्त्यस्मिन्निति स्थानं देशः । इतिकरणं दिक्षार्थम् । तेन तत्पुरुषो बहुव्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति । अनुगादिनः । प्रकृतिस्वरूपप्रदर्शनपरं चैतद् न त्वयं केवलः प्रयोगार्हः, ठको नित्यत्वादिति हरदत्तः । 'सुप्यजाती-' इति णिनि । विसारिणो । पूर्ववदिहापि णिनिः। हरदत्तस्तु-'सुप्यजातौ-' इति णिनिरुपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽस्मिंश्च अतएव निपातनाद् णिनिरित्याह । तदयुक्तम् , 'स बभूवोपजीविनाम्' 'अनुयायिवर्ग:' 'न वञ्चनीयाः प्रभवोऽनुजीविभिः' इत्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यखीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात् । 'अणिनुणः' इत्यतोऽनुवर्तनादाह अण् स्यादिति । वैसारिण इति । 'इनण्यनपत्ये' इति
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy