SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६४२ ] सिद्धान्तकौमुदी । [तद्धितेषु स्वार्थिक. कृत्वसुच् । (५-४-१७ ) अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्गे । 'संख्यायाः ' किम्--भूरिवारान्भुङ्क्ते । २०८६ द्वित्रिचतुर्भ्यः सुच् । ( ५-४ -१८) कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः। 'रात्सस्य' (सू २८०) । चतुः । २०८७ एकस्य सकृच्च । ( ५-४-१६) वरं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह अभ्यावृत्तिर्जन्मेति । उपसर्गवशाद् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कृत्वसुचि चकार इत् । उकार उच्चारणार्थः । ‘तद्धितश्चासर्वविभक्तिः' इत्यत्र तसिलादिषु परिगणनात् कृत्वोऽर्थानामव्ययत्वम् । पञ्चकृत्वो भुङ्क्त इति । पश्चत्वसंख्याकोप तविशिष्टा भोजनक्रियेत्यर्थः । संख्यायाः किमिति । गणने वृत्तिः संख्याशब्दानामेवेति प्रश्नः । भूरिवारान् भुङ्क्त इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्देस्तु समभिव्याहृतक्रियापर्याप्ते काले वर्तते । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । बहुकालेषु कात्स्न्र्त्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं त्वर्थाद्गम्यते । तथा च वारशब्दोऽयं न गणनवाची | भूरिशब्दोऽपि न संख्याशब्देन गृह्यते । 'बहुगणवतुडति संख्या' इत्यत्र बहुप्रहणेन तत्पर्यायस्य श्रसंख्यात्वबोधनात् । श्रतोऽत्र न कृत्वसुच् । द्वित्रिचतुर्भ्यः । 'क्रियाभ्यावृत्ति गणने' इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते इत्यनुषज्यते । रादिति । चतुरशब्दात् सुचि चतुर् स् इति स्थिते 'रात्सस्य' इति सकारस्य लोपे चतुरिति प्रकृतिभावः । संख्यायाः । श्रभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्यते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमह अभ्यावृत्तिजन्मेति । भूरिवारानिति । भूरिशब्दस्य लौकिकसंख्यावाचित्वेऽपि नेह ग्रहणम् । 'बहुगण - ' इति सूत्रे बहुग्रहणस्य नियमार्थत्वाद् 'अनियतसंख्यावाचिनां चेद्भवति बहोरेव' इति नियमशरीरमिति मनोरमा । बहुगणयेोरेवेति नियमशरीरमित्यन्ये । वारशब्दस्य क्रियोत्पत्त्या धारकालवाचित्वात् 'कालाध्वनो:-' इति द्वितीयेति हरदत्तः । ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणत्वात्काल एव वर्तत इति कथमत्र प्रसङ्ग इति चेत् । अत्राहुः — कालवाचित्वेऽपि क्रियः भ्यावृत्तेरपि गम्यमानत्वात्प्रसङ्ग इति । श्रभ्यावृत्ति गणने किम्, पञ्चपाका दशपाका इत्यत्र क्रियामात्रगणने माभूत् । क्रियाग्रहणं किमर्थम् यावताभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयत्वात्तस्याः, न द्रव्यगुणयोः । तयोस्तु सिद्धस्वभावतया शब्दाभिधानात्। पुनःपुनर्दण्डः, पुनःपुनः स्थूलः, इत्यत्रापि गम्यमानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयो१ एतद 'वस्तुतः' इत्यधिकम् क। >
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy