________________
५१८ ] सिद्धान्तकौमुदी। [तद्धितेषु कालाधिकार भविष्यति तु द्वैवार्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । 'परिमाणान्तस्यासंज्ञाशाणयोः' (सू १९८३)। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौगिकम्। द्विनैष्किकम्। 'असंज्ञा' इति किम् - पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैका लेजिकः । १७५५ चित्तवति नित्यम् । (५-१-८६) वर्षशब्दान्ताद् द्विगोः प्रत्ययस्य नित्यं लुक्स्याच्चेतने प्रत्ययार्थे । द्विवर्षो दारकः । १७५६ टिकाः षष्टिरात्रेण पच्यन्ते । (५-१-६०) बहुवचनमतन्त्रम् । षष्टिको धन्यविशेषः । तृतीयान्ताकन् रात्रशब्दलोपश्च निपात्यते । १७५७ तेन परिजय्यलभ्यकार्यसुकरम् । (५-१-६३) मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । चतुर्वर्थेषु यस्तद्धितः तस्मिन् परे इति यावत् । द्विवार्षिक इति । द्वाभ्यां वर्षाभ्यां निवृत्तो वे वर्षे अधीष्टो भृतो वेत्यर्थः। अत्यन्तसंयोगे द्वितीय । द्वैवर्षिक इति व्याधिरिति शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेव सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपद द्धिः। भविष्यत्त्वस्य प्रतीतेरित्याशङ्कयाह-अधीष्टभृतयोरभविष्यतीति प्रतिरोधो नेति । कुत इत्यत आह-गम्यते हि तत्र भविष्यत्तति । अध्येषरणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते। तद्धितप्रत्ययेन च तथाविध ध्येषणभरणकर्मीभूती प्रतीयते । एवंविधाध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवं च तत्रापि भविष्यदर्थकतद्धितपरकत्वाभावात् स्यादेवोत्तरपदवृद्धिरियर्थः । द्विवार्षिको मनुष्य इति । 'चित्तवति नित्यम्' इति वक्ष्यमाणस्तु नित्यलुग् न भवति, चित्तवतीत्येवारम्भसामर्थ्यान नित्यत्वे सिद्ध पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तु द्विवार्षिकः अमनुष्य इति छिन्दन्ति । चित्तवति नित्यम् । प्रत्ययस्येति । खस्य ठञश्चेत्यर्थः । दारकः वालकः । षधिकाः । तृतीयान्तादिति । षष्टिरात्रशब्दादिति शेषः । तेन परिजय्य | निवृत्तादयः पञ्चार्था निवृत्ताः। तेन परिजय्यम् , तेन लभ्यम् , तेन कार्यम् , तेन मुकरम् इत्यर्थेषु द्विवार्षिको मनुष्य इति । अत्र वदन्ति-मनुष्ये 'चित्तवति-' इति नित्यलुक्प्रसङ्गाद् 'मनुष्यो मनुष्यसदृशः प्रतिमादिः' इति व्याख्याय स्थितस्य गतिः समर्थनीयेति । दारक इति । बालकः । 'परिजय्यः' इत्यस्य विवरण 'जेतुं शक्यः' इति ।