________________
प्रकरणम् ३४ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५१७
विधेरनित्यत्वान्न टच् । द्विसंवत्सरीणः । १७५२ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च । ( ७-३ - १५ ) सङ्ख्याया उत्तरपदस्य वृद्धिः स्याद् जिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । 'परिमाणान्तस्य' इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इस्युत्तरपदवृद्धिर्न । १७५३ वर्षाल्लुक्च । ( ५- १ - ८८ ) वर्षशब्दान्ताद् द्विगोर्वा खः । पते ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः । १७५४ वर्षस्याभविष्यति । ( ७-३ - १६) उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः ।
1
खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये द्वयहीन इति स्यादित्यत आह- समा-. सान्तविधेरनित्यत्वान्न टजिति । एवं च टजभावे सति नाह्रादेशः, समासान्ते पर एव तद्विधानादिति भावः । 'समासान्तविधिरनित्यः' इति षष्ठाध्यायस्य द्वितीये पादे 'द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ' इति सूत्रभाष्ये स्पष्टम् । अथ संवत्सरान्तस्य खे उदाहरति-द्विसंवत्सरीण इति । उनि त्वादिवृद्धौ प्राप्तायाम् । सङ्ख्यायाः संवत्सर । दिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकार इदं सूत्रम् । संवत्सरश्च सङ्ख्या चेति समाहारद्वन्द्वात् षष्टी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरप्रहणं व्यर्थम्, संवत्सरस्य द्वादशमासपरिमाणतया ‘परिमाणान्तस्यासंज्ञाशाणयोः' इत्येव सिद्धेरित्यत आह- परिमाणान्तस्येत्येवेति । वर्षाल्लुक् च । वा लुगिति । खठमोरिति शेषः । द्विवर्षीण इति । खे रूपम् । द्विवर्ष इति । खठनोर्लुकि रूपम् । ठमि आदिवृद्धौ प्राप्तायाम् । वर्षस्याभविष्यति | आदिवृद्धि प्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे-उत्तरपदस्य वृद्धिः स्यादिति । श्रभविष्यति यो विदादिः तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थ वर्जयित्वा तदितरेषु 'बृहती जात्यन्ताः समासान्ताच' इति नित्येषु परिगणनादत श्राह - समासान्तविधेरिति । यद्यपि टचि कृतेऽप्यहादेशेन 'द्वैयह्निकः' इति रूपं सिध्यति, तथापि 'यहीनः' इति हि रूपं न सिध्यति, टचि सत्यद्वादेशे तस्य स्थानिवत्त्वात्, 'राजाहः - ' इति समासान्तस्याहःशब्दान्तसमासग्रहणेनैव ग्रहणाच ' रात्र्यहः संवत्सराच इति खप्रत्यये कृतेऽपि द्वयह्वीन इति रूपप्रसङ्गादित्याहुः । उत्तरपदवृद्धिर्नेति । एतोपलक्षणम् । द्विवर्षा इत्यत्र 'द्विगोः' इति ङीन्न भवति । परिमाणपर्युदासेन पर्युदासाभावाद् 'अपरिमाणबिस्ताचित -' इतीह निषेधप्रवृत्तेः । द्विवर्षे मृते सति 'तमधीष्ट:-' इति ठञ् ‘वर्षाल्लुक्च' इति लुक् । वर्षा । 'चित्तवति नित्यम्' इति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति - द्विवर्षीगो व्याधिरिति ।