________________
५१६ ]
सिद्धान्तकौमुदी । [तद्धितेषु कालाधिकार
१७४६ समायाः खः । ( ५-१-८५ ) समामधीष्टो भृतो भूतो भावी वा समीनः । १७५० द्विगोर्वा । ( ५-१-६६ ) समायाः वः' इत्येव । 'तेन परिजय्य -' ( सू १७५७ ) इत्यतः प्राङ् निर्वृत्तादिषु पद्मस्वर्थेषु प्रत्ययाः । द्विसमीनः, द्वैसमिकः । १७५१ रात्र्यहः संवत्सराच्च । ( ५-१-८७ ) 'द्विगो:' इत्येव । द्विरान्रीणः, द्वैरात्रिकः । द्वयहीनः, द्वैयह्निकः । समासान्तषण्मासशब्दाद् द्वितीयान्ताद् भूते वयसि ठन् च स्यादिव्यर्थः । समायाः खः । मण्डूकप्लुत्या 'तमधीष्टो भृतो भूतो भावी' इति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद् द्वितीयान्ताद् अधीष्टादिष्वर्थेषु खः स्यादित्यशः । द्विगोर्वा ! समायाः ख इत्येवेति । तथा च समान्ताद् द्विगोर्द्वितीयान्तात् खो वा स्यात् पक्षे ठगिति फलितम् । 'अप्सुमनः समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रम् । 'हायनोऽस्त्री शरत्समाः' इत्यमरः । ' समां समा विजायते' इति सूत्रादेकवचनमप्यस्ति । पञ्चस्विति । तेन निर्वृत्तम् तमधीष्टो भृतो भूतो भावीति पचस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति । खाभावे प्राग्वतीयष्ठञ् । रात्र्यहः । द्विगोरित्येवेति । रात्र, अहन् संवत्सर एतदन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु खो वा स्यादित्यर्थः । पते ठञ् । द्विरात्रीण इति । द्वाभ्यां रात्रिभ्यां निर्वृत्तः द्वे रात्री अधीष्टो भृतो भूतो भावी वेत्यर्थः । एवमग्रेऽपि यथायोगं ज्ञेयम् । द्वयहीन इति । द्वाभ्यां अहोभ्यां निर्वृत्तो द्वे अहनी अधीष्ट इत्यादिष्वर्थेषु 'तद्धितार्थ -' इति द्विगोः खः, 'अह्नष्टखो :-' इति टिलोपः । समाहारद्विगोस्तु न खः, टचि कृते हशब्दाभावात् । द्वैयह्निक इति । 'हटखोरेव' इति नियमाद् न टिलोपः । किंत्वल्लोपः श्रह्रादेशो वा । 'न य्वाभ्याम् -' इत्यच् । ननु द्वयहीन इत्यत्र ' तद्धितार्थ -' इति द्विगुसमासे कृते 'रात्र्यहः संवत्सराच' इति सं बाधित्वा परत्वाद् 'राजाहः सखिभ्यः -' इति टचि 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे तस्य स्थानिवत्त्वेनाहन्शब्दत्वेऽपि टजन्तस्य तदभावाद् 'राज्य : संवत्सराच' इति यवप्यनुवर्तत इति । व्याख्यानमेवात्र शरणम् । समायाः खः । 'हायनोऽस्त्री शरत्समाः' इत्यमरः। समामधीष्ट इत्यादि । अधीष्टादयश्वत्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः । द्विगोर्वा । 'संख्यापूर्वपदानां तदन्तग्रहणम लुकि' इत्यभ्युपगमात्पूर्वेण नित्ये प्राप्ते विकल्पः । द्वैसमिक इति । खेन मुक्ते पक्षे ठमिति भावः । द्वैयह्निक इति । 'टखोरेव' इति नियमादिह टिलोपो न । 'अल्लोपोऽनः' 'न य्वाभ्याम् -' इत्यैच् । ननु ' तद्धितार्थ -' इति द्विगुसमासानन्तरं ' रात्र्यहः संवत्सराच’ इत्येवं बाधित्वा परत्वाट्टचा भाव्यम्, न च महाविभाषया टचो विकल्प इति वाच्यम् ।