________________
प्रकरणम् ३४] बालमनोरमात्तत्त्वबोधिनीसहिता। [५१५ अह्वा निवृत्तम् आह्निकम् । १७४४ तमधीष्टो भृतो भूतो भावी । (५-१-८०) अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः। भूतः स्वसत्तया ज्याप्तकालः। भावी तादृश एवानागतकालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतः। मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः। मासं भावी मासिक उत्सवः। १७४५ मासाद्वयसि यत्खी । (५-१-८१) मासं भूतो मास्यः, मासीनः। १७४६ द्विगोर्यप् । (५-१-८२) 'मासाद्वयसि' इत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः । १७४७ षण्मासागण्यच्च । (५-१-८३) 'वयसि' इत्येव । यवप्यनुवर्तते, चाहञ् । षण्मास्यः, पाण्मास्यः, षायमासिकः । १७४८ अवयसि ठंश्च । (५-१-८४) चारण्यत् । षण्मासिको न्याधिः, पाण्मास्यः । स्यादित्यर्थः । आह्निकमिति । 'अष्टखोरेव' इति नियमान्न टिलोपः। तमधीष्टो। द्वितीयान्ताद् अधीष्टादिष्वर्थेषु ठञ् स्यादित्यर्थः । व्यापारित इति । प्रेरित इत्यर्थः । तादृश एवेति । स्वसत्तया व्याप्यमानकाल इत्यर्थः । मासमधीष्ट इत्यादौ 'कालाध्वनोः' इति द्वितीया । मासाद्वयसि । अत्र भूत इत्येवानुवर्तते, व्याख्यानात् । मासशब्दाद् द्वितीयान्ताद् भूत इत्यर्थे यत्खनो स्तः वयसि गम्य इत्यर्थः । द्विगोर्यप् । अनुवर्तत इति । मासान्ताद् द्विगोर्भूत इत्यर्थे यप् स्याद्वयसि गम्य इत्यर्थः । षरामासारण्यच्च । वयसीत्येवेति । षण्मासशब्दाद् भूत इत्यर्थे ण्यच्च स्याद्वयसि गम्य इत्यर्थः । अत्र चकारात्संनिहितस्य यपोऽनुकर्षणे रायद्यपावेव स्याताम् , नतु ठअपि । इष्यते तु ठञपि । तत्राह-यबप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह-चामिति । तथा च ण्यत् यप् ठमिति त्रयः प्रत्ययाः फलिताः । अवयसि ठंश्च । स्यात् । तेनेति करणे तृतीया। चतुर्थ्यन्तर्गते 'तेन निर्वृत्तम्' इत्यत्र तु कर्तरि तृतीयेति विशेषः । उभयत्राप्यन्त वितण्यर्थाद् वृतेः कर्मणि क्तः । आह्निकमिति । 'अहष्टखोरेव' इति नियमाद् 'नस्तदिते' इति टिलोपो न। मासाद्वयसि । खो भित्करणं खरार्थ पुंवद्भावप्रतिषेधार्थ च । मासीनाभार्यः । अधीष्टानां चतुर्णामधिकारेऽपि सामर्थ्याद् भूत इत्येतदत्र सम्बध्यते । न हि मासमधीष्टो भृतो वेत्यायुक्तौ काचित्कालकृता शरीरावस्था गम्यत इत्याशयेनाह-मासं भूत इति । एतच्च वृत्तिपदमार्योः स्पष्टम् । मासीन इति । बालकः । द्विगोर्यप । प्राग्वतेः संख्यापूर्वपदाना तदन्त. विधेरभ्युपगमात्पूर्वेण यत्खोः प्राप्तयोर्यप विधीयते । पित्त्वादनुदात्तः। तेन 'द्विमास्यः' इत्यादौ 'इगन्तकाल-' इत्यादिना पूर्वपदप्रकृतिस्वरो न तिष्ठते । 'यः' इत्युक्ते तु प्रत्यय. स्योदात्तत्वादन्तोदात्तो द्विमास्यः स्यात् , सति शिष्टखरबलीयस्त्वादिति भावः ।