________________
५१४ ]
सिद्धान्तकौमुदी । [तद्धितेषु कालाधिकार
यौजनशतिक आचार्यः । १७३६ पथः ष्कन् । ( ५-१-७५ ) षो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी । १७४० पन्थो ण नित्यम् । (५-१-७६) पन्थानं नित्यं गच्छति । पान्थः, पान्था । १७४१ उत्तरपथेनाहृतं च । ( ५-१-७७ ) उत्तरपथेनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति । श्रौत्तरपथिकः । 'आहृतप्रकरणे वारिजङ्गलस्थलकान्तार पूर्वादुपसङ्ख्यानम्' (वा ३०२७) । वारिपथिकम् । १७४२ कालात् । ( ५-२-७८) 'म्युष्टादिभ्योऽण्' ( सू १७६१ ) इत्यतः प्रागधिकारोऽयम् । १७४३ तेन निर्वृतम् । ( ५-१-७६ ) त्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी । क्रोशशतमतीत्येत्यर्थः । पथः कन् | पथः ष्कन् इति छेदः । द्वितीयान्तात् पथिन्शब्दाद् गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः । पन्थो ण नित्यम् । पथ इत्यनुवर्तते गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्टमेव । नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात् पथिन्शब्दाद् नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात् प्रकृतेः पन्थादेशश्चेत्यर्थः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । उत्तरपथेनाहृतं च । उत्तरपथशब्दात् तृतीयान्ताद् आहृतमित्यर्थे गच्छतीत्यर्थे च ठञ् स्यादित्यर्थः । वारिजङ्गलेति । वारि, जङ्गल, स्थल, कान्तार एतत्पूर्वात् पथिन्शब्दात् तृतीयान्ताद् आहृतमिति गच्छतीति चार्थे ठञित्यर्थः । वारिपथेन गच्छति हृतं बेत्यर्थः । जाङ्गलपथिकः, स्थालपथिकः । कान्तारपथिकः । कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः । तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ् इत्यमर इति चेत् । अत्राहु: - संशयापन्नं मानसं यस्मिन्विषये न विषयः संशयापन्न - मानस इति । ततोऽभिगमनमिति । अत्र पञ्चम्यन्तात्प्रत्ययः । पन्थो ण । पथः पन्थ इत्ययमादेशः स्याद् णश्च प्रत्ययः । नित्यग्रहणमिह प्रत्ययार्थविशेषणम्, न तु वाक्यनिवृत्त्यर्थमित्याशयेनाह - नित्यं गच्छतोति । नित्यमिति किम्, पथिकः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । श्रयं हि भाष्याशयः - नित्यं पन्थानं गच्छती - त्यर्थोऽत्र यद्यपि सम्भवति, तथापि नात्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते । कदाचिद् गच्छत्यपि तत्प्रयोगात् । न चैवमपि विग्रहवाक्यनिवृत्त्यर्थं नित्यग्रहणमस्त्विति शङ्कयम् । शिष्ट प्रयोगे विग्रहवाक्यस्य दर्शनादिति । उत्तरपथेन । चकारेण गच्छतीति प्रत्ययार्थः समुच्चीयते । तदाह--उत्तरपथेन गच्छतीति । वारिपथिकमिति । वारिपथेन गच्छतीति वारिपथेनाहृतमिति वा विग्रहः । कालात् । स्वरूप हणमिह न भवति, 'तमधीष्टो भृतो भूतो भावी' इत्यत्यन्तसंयोगे द्वितीयानिर्देशा [ । 'मासाद्वयसि - ' इत्यादौ मासादीनां कालेन विशेषणाच्च । तेन निर्वृत्तम् । तृतीयान्तात् कालवाचिनष्ठञ