________________
प्रकरणम् ३३] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ५१३ अथ ठाधिकारे कालाधिकारप्रकरणम् । ३४।
अतः परं उमेव । १७३६ पारायणतुरायणचान्द्रायणं वर्तयति । (५-१-७२) पारायणं वर्तयति पारायणिकश्छात्रः ।वरायणं यज्ञविशेषः । तं धर्तयति तीरायणिको यजमानः । चान्द्रायणिकः । १७३७ संशयमापन्नः । (५-१-७३) संशयविषयीभूतोऽर्थः सांशयिकः। १७३८ योजनं गच्छति । (५.१-७४) यौजनिकः । 'कोशशतयोजनशतयोरुपसंख्यानम्' ( वा ३०५५) कोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः । 'ततोऽभिगमनमहतीति च वक्तव्यम्' ( वा ३०५६)क्रोशशतादभिगमनमहतीति क्रौशशतिको भिक्षुः ।
अथ तद्धितेषु प्राग्वतीये ठमधिकारे कालाधिकारो निरूप्यते-अतः परं ठमेवेति । श्राहीयेष्वर्थेषु प्राग्वतीयठमपवादा माहीयाष्ठगादयः । आहीयार्थेषु निरूपितेषु तत ऊर्ध्व ठगादिप्रत्ययानाम् अनुवृत्तेरसंभवात् प्राग्वतीयः ठमेवानुवर्तत इत्यर्थः। पारायण । द्वितीयान्तेभ्यः पारायणादिशन्देभ्यो वर्तयतीत्यर्थे ठत्र स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं वेदाध्ययनम् । तद्वर्तयति भावर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नायं प्रत्ययः, अन. भिधानादिति भावः । तौरायणिको यजमान इति। ऋत्विजि नायं प्रत्ययः, अनभिधानादिति भावः । चान्द्रायणिक इति । चन्द्रायणं वर्तयतीत्यर्थः । चान्द्रायणं कृच्छ्रविशेषः । संशयमापन्नः । अस्मिन्नर्थे संशयशब्दाद् द्वितीयान्ताक् स्यादित्यर्थः । अत्र आपन्न इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थ उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे संदेग्धरि नायं प्रत्यय इति भावः । अमरस्तु 'सांशयिकः संशयापनमानसः' इत्याह । योजनं गच्छति । द्वितीयान्ताद्योजनशब्दाद् गच्छतीत्यर्थे ठञ् स्यादित्यर्थः । कोशशतेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठस उपसङ्ख्यानमिः
पारायण | आदित आरभ्य प्रान्तादविच्छेदेन वेदस्याध्ययनं पारायणम् । तञ्च गुरुणा शिष्येण वा निवर्त्यते, अन्यतरासंनिधौ अध्ययनक्रियाया अनिष्पादनात् । तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम् । तदाह-छात्र इति। यजमान इति । यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्र तौरायणिक इति न प्रयुज्यते, अनभिधानादिति भावः । चान्द्रायणं व्रतविशेषः । विषयीभूतोऽर्थ इति । 'स्थाणुर्वा पुरुषो वा' इति संशयविषयीभूते स्थाएवादावेव प्रत्यय इष्यते, न तु संदेग्धरीति भावः । कथं तर्हि 'सांशयिकः संशयापनमानसः'