________________
प्रकरणम् ३४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१६ मासेन लभ्यं कार्य सुकरं वा मासिकम् । १७५८ तदस्य ब्रह्मचर्यम् । (५-१-६४) द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । प्रार्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् । 'महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम्' (वा ३०६४ ) महानाम्न्यो नाम 'विदा. मघवन्-' इत्याचा ऋचः । तासां ब्रह्मचर्यमस्य माहानान्निकः । हरदत्तस्तु 'भस्याढे-' इति पुंवद्भावान्माहानामिक इत्याह । 'चतुर्मासारण्यो यज्ञे तत्र भव इत्यर्थे' (वा ३०६९)। चतुर्यु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि । 'अण संज्ञायाम्' ( वा ३०७०)। चतुषु मासेषु भवति चातुर्मासी आषाढी तृतीयान्ताप्रित्यर्थः । परिजय्य इत्यस्य विवरणम् जेतुं शक्य इति । तदस्य ब्रह्मचर्यम् । ननु द्वितीयान्तादिति कथम् । सूत्रे ब्रह्मचर्यविशेषणस्य तच्छब्दस्य प्रथमान्तत्वादित्यत आह-अत्यन्तेति । तथा च कालविशेषाभिव्याप्तं ब्रह्मचर्यमस्येत्यर्थे कालात्प्रत्ययः । इदमर्थ प्रति ब्रह्मचर्य विशेषणम् । मासिको ब्रह्मचारीति । मासाभिव्याप्तब्रह्मचर्यवानित्यर्थः । आर्धमासिक इति । 'अर्धापरिमाणस्य' इत्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्रह्मचारिणः प्राधान्यम् । मासाभिव्याप्तं ब्रह्मचर्य तु तद्विशेषणमिति स्थितिः । यद्धति । सूत्रे तदिति प्रथमान्तम् । ब्रह्मचर्यमिति षष्ठयर्थे प्रथमा । तथा च प्रथमान्तात्कालवाचिनः अस्य ब्रह्मचर्यस्येत्यर्थे ठबित्यर्थः फलति । तदाह-प्रथमान्तादिति । कालवाचिन इति शेषः । अस्येत्यर्थ इति । अस्य ब्रह्मचर्यस्येत्यर्थ इत्यर्थः । मासोऽस्येत्यनन्तरं ब्रह्मचर्यस्येति शेषः । अस्मिन्पक्ष ब्रह्मचर्यमेव प्रत्ययार्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणमिति बोध्यम् । उपसंख्यानमिति । अस्य ब्रह्मचर्यमित्यर्थे ठन इति शेषः । माहानानिक इति । महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वाद् भाषितपुंस्कत्वाभावाद् 'भस्याढे-' इति पुंवत्त्वं नेति भावः । हरदत्त. स्त्विति । माहानानिकमित्येव भाष्ये 'उदाहृतस्वादिदमुपेक्ष्यमिति भावः । चतुर्मासागण्यो यज्ञे तत्र भव इति । वार्तिकमिदम् । तत्र भवो यज्ञ इत्यर्थे 'क्षय्यजय्यौ शक्यार्थे' इत्ययादेशः । महानाम्न्यो नामेति । तथा चाभाषितपुंस्कत्वात्पुंवद्भावो नेति भावः। हरदत्तस्त्विति । यौगिकोऽयम् , न तु रूढ इति मन्यते। माहानामिक इति । पुंवद्भावे कृते 'नस्तद्धिते' इति टिलोप इति । चतुर्मासादिति । मासशब्दस्य कालवाचित्वात्कालाधिकारे वार्तिकारम्भः । न च विशिष्टस्य कालवाचित्वाभावादिह संगतिर्दुनिरूपेति शङ्कयम् । 'प्राग्वतः संख्यापूर्व