________________
५२०]
सिद्धान्तकौमुदी। [तद्धितेषु कालाधिकार पौर्णमासी । अण्णन्तस्वान्डीप् । १७५६ तस्य च दक्षिणा यज्ञाख्येभ्यः (५-१-६५) द्वादशाहस्य दक्षिणा द्वादशाहिकी। श्राख्या रहणादकालादपि। माग्निष्टोमिकी । वाजपेयिकी । १७६० तत्र च दीयते कार्य भववत् । (५-१-१६) प्रावृषि दीयते कार्य वा प्रावृषेण्यम् । शारदम् ।
इति तद्धितेषु प्राग्वतीये अधिकारे कालाद् इत्यधिका : सम्पूर्णः । चतुर्मासशब्दात्सप्तम्यन्तारण्यो वाच्य इत्यर्थः । चतुधिति । तुषु मासेषु अतीते. वित्यर्थः । अणू संशायामिति । वार्तिकमिदम् । चतुर्मास शब्दाद् भवार्थे अण् वाच्यः संज्ञायामित्यर्थः । चतुविति । फाल्गुनी पौर्णम् सीमारभ्य चतुर्षु मासेष्वतीवेष्वित्यर्थः । आषाढीति । आषाब्याः पौर्णमास्याः चातुर्मासीति संज्ञेति भावः । नच 'तत्र भवः' इत्यणैव सिद्धमिति वाच्यम् , 'द्विगोर्खर नपत्ये' इति लुनि वृत्त्यर्थत्वात् । तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालः त्तिभ्यः ठञ् स्यादित्यर्थः । द्वादशाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुदश हः । तस्येत्यर्थः । कालोपसर्जनकतुवाचित्वादयमपि कालवृत्तिरिति भावः । 'कालात्' इत्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमिति 'तदस्य परिमाणम्' इति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा श्रामिष्टोमिकीत्या ठञ् न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाभावादित्यत आह -आख्याग्रहणादकालादपीति । अन्यथा यशेभ्य इत्येव सिदे आख्याग्रहणवैयादिति भावः । वस्तुतस्तु यज्ञेभ्य इत्येवोक्तो कालादित्यधिकाराद् द्वादशाहादिश न्देभ्य एव स्यात्, नतु अमिष्टोमादिशब्देभ्यः। आख्याग्रहणे तु अमिष्टोमादिभ्यो द्वादशाहादिशब्दे. भ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् । तत्रबदीयते । तत्र दीयते तत्र कार्यमित्यर्थयोः सप्तम्यन्तात्कालवाचिनो भववत्प्रत्ययाः स्युरित्ययः । प्रावृ. घेण्यमिति । 'प्रावृष एण्यः' इति भवार्थे विहितम् इहापि भवति । शारदमिति । पदानां तदन्तप्रहणम्' इत्यभ्युपगमादस्त्येव संगतिरिति । संज्ञायामणिति । 'तत्र भवः' इत्यनेनैव सिद्धे पुनरविधिः 'द्विगो गनपत्ये' इति लुङ्मा भूदित्येतदर्थमिदमत्रारब्धम् । एवं चास्मिन् वार्तिके 'चतुर्मासात्' इत्यस्यानु वृत्तये पूर्ववार्तिकमत्रवारब्धमित्यपि ज्ञेयम् । चातुर्मासीति । कस्य संज्ञेत्याकांक्षायाम ह-आषाढीति। अषाढानक्षत्रयुक्ता पौर्णमासीत्यर्थः। तस्य च दक्षिणा । षष्ठर न्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात् । कालाधिकादेवेह द्वादशाहादिभ्यः सिद्धे आख्याप्रहण भ्यर्थमित्याशय परिहरति-आख्याग्रहणादिति । तत्र च । कालवाचिनः सप्तम्यन्ताहीयते कार्यमित्येतयोरर्थयोर्भववत्प्रत्ययः स्यात् । भावृषेण्यमिति ।