________________
बालमनोरमा-तत्त्वबोधिनीसहिता ।
अथ तद्धितेषु ठञ्विधिप्रकरणम् । ३५ ।
१७६१ व्युष्टादिभ्योऽण् । ( ५-१-६७ ) व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट तीर्थ संग्राम प्रवास इत्यादि । [ 'अभिपदादिभ्य उपसंख्यानम्' ( वा ३०७२ ) अभिपदे दीयते कार्य वा अभिपदम् । पैलुमूलम् । ] १७६२ तेन यथाकथाचहस्ताभ्यां लयतौ । ( ५-१६८ ) यथाकथाचेत्यव्ययसङ्घातात्तृतीयान्ताद्वस्वशब्दाच्च यथासंख्यं णयतौ स्तः । 'अर्थाभ्यां तु यथासंख्यं नेष्यते' । यथाकथा च दीयते कार्य या याथाकथाचम् । श्रनादरेण देयं कार्यं वेस्यर्थः । हस्तेन दीयते कार्य वा हस्स्यम् । १७६३ सम्पादिनि । (५-१-६६ ) 'तेन' इत्येव । कर्ब वेष्टकाभ्यां सम्पादि कार्णवेष्टकिकं मुखम् । कर्णालङ्काराभ्यामवश्यं शोभत इत्यर्थः । १७६४ कर्मवेषाद्यत् । (५-१-१००) शरदि दीयते कार्य वेत्यर्थः । सन्धिवेलाद्यण् भवे विहित इहापि भवति । इदं वृत्त्यनुरोधेन । वस्तुतस्तु तत्र कार्य दीयत इत्यर्थे यज्ञाख्येभ्यो भववत्प्रत्ययाः स्युरित्यर्थः । श्रग्निष्टोमे दीयते भक्कम् श्रामिष्टोमिकम् । कार्यग्रहणादमिष्टोमे दीयते हिरण्यमित्यत्र न भवति । न यमिष्टोमे हिरण्यं क्रियत इति भाष्य स्पष्टम् । इति तद्धितेषु प्राग्वतीये ठमधिकारे कालाद् इत्यधिकारः संपूर्णः ।
प्रकणरम् ३४ ]
[ ५२१
अथ विधिर्निरूप्यते । व्युष्टादिभ्योऽण् । 'तत्र च दीयते कार्यम्' इत्यनुवर्तते । दीयते कार्य वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्यः अण् स्यात् । ठञोऽपवादः । व्युष्टं प्रभातम् । वैयुष्टमिति । अणि ‘न य्वाम्याम्–' इत्यैच् । तेन यथा । अर्थाभ्यामिति । प्रकृत्योः प्रत्यययोश्च यथासंख्यम्, नतु दीयते कार्यमित्यर्थयोरित्यर्थः, व्याख्यानादिति भावः । संपादिनि । तेनेत्येवेति । संपाद: संपत्तिः शोभा अस्यास्तीति संपादी । तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः । कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दाद् वेषशब्दाच । संपादिन्यर्थे 'प्रावृष एण्यः' इति भवार्थे विहितः स इहाप्यतिदिश्यत इति भावः । शारदमिति । 'संधिवेलायृतुनक्षत्रेभ्योऽण् ।
इति तत्त्वबोधिन्यां कालिकप्रकरणम् ।
व्युष्टादिभ्यो ऽण् । व्युष्टशब्दः कालवाची दिवसमुखे वर्तते । संपादिनि । गुणोत्कर्ष: संपत्तिः । 'आवश्यके णिनिः' इति वृत्तिकृत् । एवं वस्त्रयुगेन संपादि १ बन्धनीधृतः पाठः कौमुदी पुस्तकेषु प्रायेण न दृश्यते, टीकाकृता च न व्याख्यातः । क्वचित्तु मूलपुस्तकेषु दृश्यते स केनापि काशिकाया उद्धृत इत्यनुमीयते ।