________________
५२२ ]
सिद्धान्तकौमुदी। [तद्धितेषु ठविधि कर्मणा सम्पादि कर्मण्यं शौर्यम् । वेषेण सम्पादी वेष्यो नटः । वेषः कृत्रिम श्राकारः । १७६५ तस्मै प्रभवति सन्तापादिभ्यः । (५-१--१०१) सन्तापाय प्रभवति सान्तापिकः । सानामिकः । १७६६ योगाद्यञ्च । (५-१-१०२) चाटुन् । योगाय प्रभवति योग्यः, यौगिकः । १७६७ कर्मण उकञ् । (५-१-१०३) कर्मणे प्रभवति कामुकम् । १७६८ समयस्तदस्य प्राप्तम् । (५-१-१०४) समयः प्राप्तोऽस्य सामयिकम् । १७६६ ऋतोरण । (५-१-१०५) ऋतुः प्राप्तोऽस्य प्रार्तवम् । [ 'उपवस्त्रादिभ्य उपसंख्यानम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम् ।। १७७० कालाद्यत् । (५-१-१०७) कालः प्राप्तोऽस्य काल्यं शीतम् । १७७१ प्रकृष्टे ठञ् । (५-१-१०८) 'कालात्' इत्येव । 'तदस्य' इति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् । १७७२ प्रयोजनम् । (५-१-१०६) तदस्य' इत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च । यस्यादित्यर्थः । तस्मै प्रभवति । चतुर्थ्यन्तभ्यः संतापादिभ्यः प्रभवतीत्यर्थे ठञ् स्यादित्यर्थः । संतापाय प्रभवतीति । शत्रूणां पीडाथै शक्नोतीत्यर्थः । योगाद्यच्च । चतुयन्तात्प्रभवतीत्यर्थे इति शेषः । कर्मण उकञ्। चतुर्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कार्मुकमिति । उकत्रि टिलोपः । समयस्तदस्य । तदिति प्राप्तमिति च सामान्ये नपुंसकम् । समयः प्राप्तोऽस्येत्यर्थे प्रथमान्तात्समयशब्दात् ठनित्यर्थः । तदित्युत्तरार्थम् । ऋतोरण् । 'प्राप्तम्' इत्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्ताद् ऋतोरणित्यर्थः । आर्तवमिति । अणि श्रोर्गुणः, आदिवृद्धिः, रपरत्वम् । कालाद्यत् । तदस्य प्राप्तम्' इत्येव । प्रथमान्तात्कालशब्दाद् अस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा । प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दात् ठजित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति । प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्ताप्रित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । वास्नबुगिकं शरीरमित्यप्युदाहार्यम् । वस्त्रयुगेन अवश्य शोभत इत्यर्थः । तस्मै प्रभवति । समर्थः शक्तः प्रभवतीत्युच्यते । आर्तवमिति । पुष्पमित्यादि विशेष्यं बोध्यम् । काल्यं शीतमिति । 'प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । तत्र प्रातःकाले काल्यशब्दत्य व्युत्पत्त्यन्तरं मृग्यम् । प्रकृष्ट ठञ् । प्रकृष्यते अयमिति प्रकृष्टः । कर्मणि कः । तेन च प्रकर्षेण कालो विशेष्यत इत्याह-दीर्घः काल इति । ठञ्
१ अत्रापि बन्धनीधृतः पाठः पूर्वपृष्टवदेव ।