________________
प्रकरणम् ३५] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२३ १७७३ विशाखाषाढादण् मन्थदण्डयोः । (५-१-११०) श्राभ्यामण स्याप्रयोजनमित्यर्थे क्रमान्मन्थदएडयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । प्राषाढो दण्डः । 'चूडादिभ्य उपसंख्यानम्' । चूडा-चौडम् । श्रद्धाश्राद्धम् । १७७४ अनुप्रवचनादिभ्यश्छः । (५-१-१११) अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् । १७७५ समापनात्सपूर्वपदात् । (५-१-११२) व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयः । १७७६ ऐकागारिकट चौरे । (५-१-१९३) एकमसहायमगारं प्रयोजनमस्य 'मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यत इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची। प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः । विशाखाषाढात् । विशाखाशब्दाद् आषाढशब्दाच्च प्रथमान्ताद् अस्य प्रयोजनमित्यर्थे अण् स्यात् , समुदायेन मन्थे दण्डे च क्रमाद् गम्ये सतीत्यर्थः, तदाह-आभ्यामिति । स्थूणामेकां निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्ज्य तयोः रज्ज्वोमेन्थनदराड ऊर्ध्वमासज्यते । येन रज्ज्वा भ्रामितेन दधि विलोड्यत इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोः वैशाखशब्द आषाढशब्दश्च रूढौ । तत्रावयवार्थाभिनिवेशो न कर्तव्यः। चूडादिभ्य इति । चूडादिभ्यः प्रथमान्तेभ्यः अस्य प्रयोजनमित्यर्थे अणित्यर्थः । चौडमिति । चूडा प्रयोजनमस्येति विग्रहः । डलयोरभेदाचौलमित्यपि । श्रद्धा श्राद्धमिति । श्रद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्रद्धाहेतुकमिति यावत् । अनुप्रवचनादिभ्यश्छः । प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनुप्रवचनं नाम उपनय. नाङ्गं किञ्चित्कर्म अाश्वलायनसूत्रे प्रसिद्धम् । समापनात्सपूर्वपदात् । सपूर्वपदासमापनशब्दाद् अस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । मङ्गलाचार इति शेषः । ऐकागारिकद् चौरे । एकमगारं प्रयोजन ग्रहणं विस्पष्टार्थम् । अन्यथा अनन्तरस्य यतोऽनुवृत्तिराशङ्कथेत । इन्द्रमह इति । मह उत्सवः । वैशाखो मन्थः । आषाढो दण्ड इति । वैशाखाषाढशब्दो रूढिरूपेण मन्थदण्डयोर्वतते । तयोस्तु यथाकथंचिद्व्युत्पत्तिः क्रियत इति हरदत्तः । विलोडनदण्डस्यैवाधारभूतः काष्ठविशेषो मन्थ इत्युच्यते । अनुप्रवचना । अनुप्रवचनं नाम ब्रह्मौदनमुच्यते । सपूर्वपदादिति । विद्यमानपूर्वपदादित्यर्थः । ऐकागारिकद् । टो कीवर्थः । ऐकागारिकी । किमर्थमिदमुच्यते, यावता 'प्रयो.