________________
५२४ ]
सिद्धान्तकौमुदी | [तद्धितेषु विधि
समानकालस्या
मुमुषिषोः स ऐकागारिकचौरः । १७७७ आकालिकडाद्यन्तवचने । ( ५- १ - ११४ ) समानकालावाद्यन्तौ यस्येत्याकालिकः । काल श्रादेशः । श्राशु विनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा । 'प्राकालाट्ठेश्व' (वा ३०७८ ) । श्राकालिका विद्युत् । इति तद्धितेषु प्राग्वतीयस्य उञः पूर्णोऽवधिः ।
1
प्रयोजकमस्य चोरस्येति विग्रह एकागारशब्दादिकट्प्रत्यये ऐकागारिकट् इति निपात्यते । दित्त्वं ङीबर्थम् । प्रयोजनमित्येव सिद्धे चोर एवेति नियमार्थ सूत्रम् । एकमित्यस्य विवरणम् -- असहायमिति । 'एके मुख्यान्यकेवलाः' इत्यमरः । मुमुषिषोरिति । चौर्यं कर्तुमिच्छोरित्यर्थः । चोरस्य हि असहायमगारमिष्टं गेद्दान्तरसत्त्वे चौर्यप्रकटनप्रसङ्गादिति भावः । चोरे किम् ? एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु 'एकागारा चोरे' इत्येव सुवचम् । प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम् । कालिकट् । समानकालाविति बहुव्रीहिः । श्राद्यन्ताविति । उत्पत्तिविनाशावित्यर्थः । समानकालस्येति । समानकालशब्दस्य इकप्रत्यये परे श्राकालादेशो निपात्यत इत्यर्थः । ननु उत्पत्तिविनाशयोरे ककालिकत्वमसंभवपराहतमित्यत आह- आशु विनाशीति । लक्षणां विनैवाह - पूर्वदिन इति । आकालाट्ठेश्चेति । श्राकालशब्दादायन्तवचनाट्ठन् प्रत्ययश्च वक्तव्य इत्यर्थः । चात् ठञ् । आकालिका विद्युदिति । उनि टाप् । ठमि तु ङीप्, श्राकालिकी । अर्थः
प्राग्वत् ।
इति तद्धितेषु प्राग्वतीयस्य ठञः पूर्णोऽवधिः ।
जनम्' इत्येव ठगि सिद्धम् । सत्यम्, चौरे नियमार्थमावश्यकमिदं सूत्रम् । अन्यथा एकागारं प्रयोजनं यस्य भिक्षोरित्यत्रापि स्यात् । नन्वेवमपि 'एकागाराचौरे' इति ठमेव नियम्यताम्, किमैकागारिक इति निपातनेन टित्करणेन च प्रयोजनमिति चेत् । अत्राहुः—टकारः कार्यावधारणार्थः । ङीबेव भवति न खिर इति । वृद्धिस्तु निपातनाद्भवत्येवेति । श्राकाल आदेश इति । निपात्यत इति शेषः । श्राद्यन्तौ यस्येत्यादि । अस्येत्यधिकारात्षष्ठ्यर्थे इकट् प्रत्ययो निपात्यत इति भावः । आकालाद्वंश्चेति । वार्तिकमिदम् ।
इति तत्त्वबोधिन्यां ठञधिकार प्रकरणम् ।