________________
प्रकरणम् ३५] बालमनोरमात्तत्त्वबोधिनीसहिता। [५२५
अथ तद्धितेषु भावकर्मार्थाः । ३६ ।
१७७८ तेन तुल्यं क्रिया चेद्वतिः। (५-१-११५) ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । 'क्रिया चेत्' इति किम्-गुणतुल्ये मा भूत् , पुत्रेण तुल्यः स्थूलः । १७७६ तत्र तस्येव । (५-१-११६) मधुरायामिव मधुरावस्त्रने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य भावः । १७८० तदहम् । (५-१-११७)
__ अथ भावकर्मार्था निरूप्यन्ते । तेन तुल्यं क्रिया चेद्वतिः । तुल्यमिति क्रियेत्यस्य विशेषणम् । सामान्याभिप्रायं नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः । तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राह्मणेन तुल्यं ब्राह्मणवदधीत इति । अत्र ब्राह्मणवदित्युदाहरणम् । ब्राह्मणेन तुल्यमधीते इति विग्रहवाक्यम् । अत्र ब्राह्मणशब्देन ब्राह्मणकतृका. ध्ययनं लक्ष्यते । ब्राह्मणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः। गुणतुल्य इति । द्रव्यतुल्येऽपीति बोध्यम् । तेन चैत्रेण तुल्यो धनी देवदत्त इत्यादौ न भवति । 'अयमेवं न तद्वत्' इत्यादौ वतेः साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव । तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात् षष्ठयन्ताच वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठयर्थे सप्तम्यपीति भाष्यम् । अत्र क्रिया चदिति नानुवर्तत इत्यभिप्रेत्योदाहरतिमधुरायामिव मधुरावस्त्रघ्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी । तथा सति विद्यमानेति क्रियापदसापेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिर्देशादिवशब्दयोगे षष्ठयर्थे सप्तमीति भाष्यं संगच्छते । मधुरासंबन्धिप्राकार
तेन तुल्यं क्रिया चेद्वतिः । तुल्यमिति सामान्ये नपुंसकम् । तृतीयान्तातुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं क्रिया चेत्सा। ब्राह्मणेन तुल्यमिति । 'नन्वत्र ब्राह्मणो यथा वर्तते तथा क्षत्रियादिकर्तृकाध्ययनं वर्तते' इति वाक्यार्थोऽसंगत इति चेत् । अत्राहुः-ब्राह्मणशब्दस्तत्कर्तृकाध्ययने लक्षणया वर्तते । 'ब्राह्मणकर्तृकाध्ययन तुल्याध्ययनं वाक्यार्थः' इति न कोऽपि दोषः । गुणतुल्य इति । उपलक्षणमिदम् । अक्रियातुल्य इत्यर्थः । एवं च 'ब्राह्मणेन सदृशः क्षत्रियः' इत्यर्थे 'ब्राह्मणवत् क्षत्रियः' इति प्रयोगोऽसाधुरेव । अतएव 'पर्वतो वह्निमान् महानसवत्' इति वाक्ये 'महानससदृशः पर्वतः' इत्यर्थे वतेरसाधुत्वं मत्वा तस्य वतेः साधुत्वरक्षणार्थ 'पर्वतो वह्निमान् भवितुमर्हति' इत्यादि क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव । सप्तम्यन्तात् षष्ठयन्ताच्च इवार्थे प्रत्ययः । 'क्रिया चेत्'