________________
८]
सिद्धान्तकौमुदी। [तत्पुरुषसमास(६-३-७४ ) लुप्तनकाराधन उत्तरपदस्याजादेर्नुहागमः स्यात् । अनश्वः । अर्था
सर्जनतया त्यदाद्यत्वानापत्तौ हल्ल्यादिलोपस्य दुर्वारत्वात्तद्वैयर्थं स्पष्टमेव । तस्मादु. त्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नमर्थ इति युक्तम् । विस्तरस्तु प्रौढमनोरमायां शब्दरत्ने मञ्जूषायां च ज्ञेयः । प्राचीनास्तु 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः'। इति पठित्वा अब्राह्मणः, अपापम् , अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोअश्वेभ्यः, अधर्म इत्युदाजहः तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः । तस्मान्नुडचि । तच्छन्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते। उत्तरपद इत्यनुवृत्तम् अचीत्यनेन विशेष्यते। तदादिविधिः । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वात्' इतिपरिभाषया सप्तमी षष्ठी प्रकल्पयति । तदाह-लुप्तनकारादिति । अनश्व इति । समासे सति नमो नकारस्य लोपे तत्परिशिष्टाकारस्य नुट ,टकार इत् , उकार उच्चारणार्थः । टित्त्वादाद्यवयव इति भावः । नुक् तु न कृतः । मुदप्रसङ्गात् । ननु 'उत्तरे कर्मण्यविघ्नमस्तु' इत्यादौ विनानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लित्वे अविघ्न इति स्यात् । न च अर्थाभावे अव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निर्मक्षिकमित्यादौ सावका
ब्राह्मणः, अकनश्व इत्यादि सिद्धमित्याहुः । उत्तरपद इति । 'अलुगुत्तरपदे' इत्यधिकारादिति भावः। उत्तरपदे किम्, घटो नास्ति, पटो नास्ति । नन्वेवमपि 'बणार्थः' इत्यत्र नलोपः स्यादिति चेत् । अत्राहुः-उत्तरपदाक्षिप्तपूर्वपदेन । नमें विशेष्य 'पूर्वपदभूतस्य नमः, इति व्याख्यानान भवति । 'स्त्रीपुंसाभ्याम्-' इति विहितस्य नञ्प्रत्ययस्यापूर्वपदत्वात् । अतएव चात्र 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव प्रहणम्' इति परिभाषा नोपतिष्ठते । न च प्रत्ययप्ररणे तदन्तग्रहणानप्रत्ययान्तस्य पूर्वपदत्वं संभवत्येवेति 'प्रत्ययाप्रत्यययोः-' इत्येतदुपतिष्ठत एवेति वाच्यम् । 'हृदयस्य हृल्लेख-' इति सूत्रे अणग्रहणात्पृथग् लेखग्रहणेन 'उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति ज्ञापनात् । यद्वा 'अमूधेमस्तकात्- 'विभक्तावप्रथमायाम्' इत्या दिज्ञापकाद् 'नलोपो नञः' इत्यत्राव्ययमेव नञ् गृह्यते, न तु प्रत्यय इति । तस्मान्नुडचि । 'डः सि धुट्' इत्यत्रेवाचीति सप्तम्याः षष्ठी प्रकल्प्यत इत्याह-अजादरिति । अचा उत्तरपदविशेषणाद् 'यस्मिन्विधिः-' इति तदादिविधिर्लभ्यत इति भावः । अनश्व इति । नुटः परादित्वेन अपदान्तत्वाद् 'डमो ह्रस्वात्-' इति डमुण्न भवति । ननु विघ्नानामभावोऽविघ्नमित्यत्रापि परत्वात्तत्पुरुषः स्यादव्ययीभावस्य निर्मचिकादौ सावकाशत्वात् । अन्यथा अनुपलब्धिः, अविवाद इति न सियेदित्या