________________
प्रकरणम् १८] बालमनोरमा तत्त्वबोधिनीसहिता। [८६ भावेऽव्ययीभावेन सहायं विकल्प्यते । 'रोहागमनम्वसन्देहाः प्रयोजनम्' इति 'भदवायामसंहितम्' (वा ११६७) इति च भाष्यवार्तिकप्रयोगात् । तेन मनुपलब्धिः, अविवादः, अविनम् इत्यादि सिद्धम् । 'नमो नलोपस्तिति क्षेपे' (वा १९८४)। अपचसि त्वं जाम । नेकधा इत्यादौ तु नशब्देन सह 'सुपा' (स १४६) इति समासः । ७५६ नभ्राएनपान्नवेदानासत्यानमुचिनशतया परत्वात्तत्पुरुषस्यैव प्रसज्ञादित्यत आह-अर्थाभाव इति । रक्षेति । पस्पशाहिकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्च लघु च असंदेहश्च इति द्वन्द्वः। 'परवल्लिङ्गम्-' इति पुंस्त्वम् । अत्र संदेहाभाव इत्यर्थे असंदेहशब्दस्य असंदेहा इति प्रयोगात् तत्पुरुषो विज्ञायते। अव्ययीभावे रक्षोहागमलध्वसंदेहमिति स्यात् । अद्रुता. यामसंहितमिति । 'परः सन्निकर्षः संहिता' इति सूत्रे पठितमिदं वार्तिकम् । अद्रुता यां वृत्तौ संहिताभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगाद् अव्यययोभावेऽपि अर्थाभावो ना गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिगत्वादसंहितेति स्यात् । ततश्च ना गम्ये अभावे तत्पुरुषाव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलब्धिरित्यत्र अविवाद इत्यत्र च तत्पुरुषः, अविनमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे तु अन्यथा प्रपञ्चितम् । नमो नलोपस्तिङि क्षेप इति । 'न लोपो नमः' इति सूत्रस्थवार्तिकमिदम् । नमो नकारस्य लोपः स्यात् तिछि परे निन्दायामिति वक्तव्यमित्यर्थः । अपचसि त्वं जाल्मेति । कुत्सितं पचसीत्यर्थः । अत्र श्र इति भिन्नं पदम् , तिङन्तेन समासाभावात् । वार्तिकमिदं प्रसादुपन्यस्तम् । नसमानार्थकेन अ इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्तिकादव्ययेषु अ इत्यस्य पाठः अप्रामाणिक इत्याहुः । ननु मैकधेत्यत्रापि नसमासे 'न लोपो नत्रः' इति नकारस्य लोपे 'तस्मान्नुडचि' इति नुटि अनेकधेत्येव स्यादित्यत आह-नैकधेत्यादौ त्विति । एतदर्थमेव 'नञ्' इति सूत्रे 'न लोपो नमः' इति सूत्रे च अकारानुबन्धग्रहणमिति भावः । नभ्रायनपात्-। सुगशड्याह-अर्थाभावेऽव्ययीभावेन सहेत्यादि । अविघ्नमिति । यद्यप्य. विद्यमाना विघ्ना यस्मिनिति बहुव्रीहिण। अविघ्नं कर्मेत्यादिप्रयोगः सिद्धयति, तथापि 'उत्तरे कर्मण्यविघ्नमस्तु' इत्यादिप्रयोगा अव्ययीभावं विना स्वरसतो न सिद्धयन्तीति भावः । नमो नलोप इति । तिङन्तेन समासाभावादप्राप्ते वचनम् । अपचसीति । कुत्सितं पचसीत्यर्थः । नशब्देनेति । नत्रा समासे त्वनेकधेत्येव स्यादिति भावः । नभ्राद् । सत्सु साधवः सत्याः । 'तत्र साधुः' इति यत् । न सत्या असत्याः । म असत्या नासत्याः । इह बहुवचनमविवक्षितम् । तेन 'नासत्यावश्विनौ दसौ' इति