________________
६० ]
सिद्धान्तकौमुदी ।
तत्पुरुषसमास
कुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । ( ६-३-७४) पाद् इति शत्रन्तः । वेदा इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुल्लमस्य । न खमस्य । न स्त्री पुमान् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न चरतीति नक्षत्रम् । चीयतेः चरतेर्वा चत्रमिति निपात्यते । न क्रामतीति नक्रः । ' क्रमेर्ड : ' । न अकमस्मिन्निति नाकः । ७६० नगोऽप्राणिष्वन्यतरस्याम् । ( ६- ३-७७ ) नग इत्यत्र नम्प्रकृत्या वा । नगाः - श्रगाः पर्वताः । श्रप्राणिषु इति किम्-श्रगो वृषलः शीतेन । 'नित्यं क्रीडा -' ( सू ७११ ) इत्यतो नित्यम् इत्यनुवर्तमाने - ७६१ कुगतिप्रादयः । ( २ - २ - १८ ) एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । 'गतिश्च' ( सू २३ ) इत्यनुवर्तमाने । ७६२ ऊर्यादिच्विडाचश्च । ( १४-६१ ) एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटा
मम् । अनुवर्तमान इति । समासविधयो वक्ष्यन्त इति शेषः । कुगतिप्रादयः । समस्यन्त इति । स तत्पुरुष इत्यपि ज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमा - सत्वादस्वपदविग्रहः । कुत्सितार्थकस्य कु इत्यव्ययस्यैवात्र ग्रहणम्, न तु पृथ्वीपर्यायस्य, गत्यादिसाहचर्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् । ऊर्यादिच्विडाचश्च । चिवडाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्य यमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनन्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्कं शुक्रं कृत्वेत्यर्थः।‘कुभ्वस्तियोगे -' इत्यभूततद्भावे च्विः । गतिसमासे सति क्वो ल्यप्, येरपृ
I
सिद्धम् । नुमचिरिति । 'सर्वधातुभ्य इन्' । 'इगुपधात्कित्' इति कित्त्वान्न गुणः । क्षरतेः क्षीयतेर्वेति । 'तर संचलने' भ्वादि: । 'ति निवासगत्योः ' तुदादिः । कुगति । कुशब्दोऽत्राव्ययं गृह्यते, न तु पृथिवीवाचकः, गत्यादिसाहचर्यात् । ऊर्यादिच्विडाचश्च । 'उपसर्गाः क्रियायोगे' इत्यतोनुवर्तनादाह – क्रियायोग इति । विडाचौ कृभ्वस्तियोगे विहितौ तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा । तेनेह न- ऊरीपक्त्वा । माधवादिप्रन्थे तु 'आविः प्रादुःशब्दौ मुक्त्वा श्रन्येषां करोतिनैव योगे गति संज्ञा' इति स्थितम् । तथैवोदाहरति — ऊरीकृत्येति । एतच्च मनोरमा - नुसारेणोक्तम् । वस्तुस्तु ऊरीभूयेति भाष्योदाहरणाद्दिङ्मात्रमुदाहरति, ऊरीकृतेत्यवतरितुयुक्तम् | संज्ञाफलं समासस्तत्फलं च ल्यबिति बोध्यम् । ऊरी उररी एतावङ्गीकारे । विः शब्दस्य तु साक्षात्प्रभृतिषु पाठात् कृञो योगे गतिसंज्ञाविकल्पः, भ्वस्तियोगे त्वनेन नित्यमिति बोध्यम् । कथं तर्हि 'वारुणीमदविशङ्कुमथाविश्चक्षुषो भवदसाविव रागः' इति माघ इति चेत् । अत्राहुः - - ' ते प्राग्धातो:' इतिसूत्रस्य प्रयोगनियमार्थत्व