________________
प्रकरणम् १८] बालमनोरमात्तत्त्वबोधिनीसहिता। [६१ कृत्य । 'कारिकाशब्दस्योपसंख्यानम्' (वा ११३२) कारिका किया । कारिकाकृत्य । ७६३ अनुकरणं चानितिपरम् । (१-४-६२) खाद्कृत्य । भनितिपरं किम्-खाडिति कृत्वा निरष्ठीवत् । ७६४ आदरानादरयोः सदसती। स्येति वलोपः । 'अस्य च्वौ' इति ईत्त्वम् । पटपटाकत्येति । पटपटा इति शन्दं कृत्वेत्यर्थः । 'अव्यक्तानुकरणाद्वयजवराधादनितौ डाच्' इति पटच्छन्दााचि द्वित्त्वम् , टिलोपः । 'नित्यमानेडिते डाचि' इति तकारपकारयोः पकार एकादशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसंख्यानमिति । गतिसंज्ञाया इति शेषः। कारिकाशब्दं व्याचष्टे-कारिका क्रियेति । 'स्त्रियां किन्' इत्यधिकारे धात्वर्थनिर्देश एवुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः। द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप, सुब्लुक्, कारिकाशब्दोऽत्र न कींवाची, न श्लोकवाची च, व्याख्यानात् । अनुकरणं चानितिपरम। अनुकरणं गतिसंज्ञं स्याद् इतिपरं वर्जयित्वेत्यर्थः । खादक. त्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाभावादेव गति संज्ञा न भविष्यति, तत्किमनितिपरग्रहणेनेति वाच्यम् , यथाकथंचित्क्रियायोगसत्त्वात् । 'ते प्राग्धातोः' इति सूत्रं तु ते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत इति प्रयोगनियमपरमेवेति भावः । आदरानादरयोः सदसती। सदिति असदिति च अव्यय भादसनादरयोः क्रमेण पक्षे प्रकृते अनुपपत्तावपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति ।-शुक्लीति । 'कृभ्वस्तियोगे संपद्य कर्तरि विः' । 'अस्य च्वौ' इतीकारः। पटपटाकृत्येति । 'डाचि बहुलं द्वे भवतः' इति पटच्छब्दस्य द्वित्वम् । 'अव्यक्तानुकरणाद्-' इति डाचि टिलोपः । 'नित्यमानेडिते डाचि' इति तकारपकारयोः पकार एकादेशः। निपातसंज्ञायाः समावेशार्थ सूत्रे चकारः । तेन ऊरीकृतमित्यत्र 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरे क्रियमाणे निपातप्रयुक्तमायुदात्तत्वं भवति । कारिकेति । भावे 'पर्यायाहण-' इति एवुच् । तदाह-क्रियेति । "क्रियायोगे' इत्यनेन कारिकाशब्दस्य विशेषणात् श्लोकवाची कारिकाशब्दोऽत्र नं गृह्यत इति भावः । क्रियाशब्दस्यात्र मर्यादास्थितिरर्थः । यत्न इत्यन्ये । अनुकरणं चा। 'ते प्राग् धातोः' इत्यस्य संज्ञानियमपक्षेऽनितीति व्यर्थमिति मत्वा पृच्छति । अनितिपरं किमिति । इतरस्तु प्रयोगनियमपक्षे खाडित्यनुकरणस्येतिशब्दे परे गतिसंज्ञानिवारणायानितिपरमित्यावश्यकमिति प्रत्युदाहरति--खाडिति कृत्वेति । सत्यां संज्ञायाम् एष प्रयोगो नैव स्यात् , किंतु 'इति खाटकृत्य' इत्येव स्यादिति भावः । न च 'इति खाकृत्य' इति न भवति, इतेः परस्यानुकरणस्य गतिसंज्ञानिषेधादिति वाच्यम् ,