________________
१२]
सिद्धान्तकौमुदी। [तत्पुरुषसमास(१-४-६३) सस्कृत्य । असत्कृत्य । ७६५ भूषणेऽलम् । (१-४-६४) अखंकृत्य । भूषणे किम्-अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । 'अनुकरणम्-' (सू ७६३) इत्यादित्रिसूत्री स्वभावास्कृम्विषया। ७६६ अन्तरपरिग्रहे । (१-४-६५) अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम्-अन्तईस्वा गतः । हतं परिगृह्य गत इत्यर्थः । ७६७ कणेमनसी श्रद्धाप्रतीपाते । (१-४-६६) कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातः अभिलाषातिशये वर्तते । मनश्शब्दोऽप्यत्रैव । ७६८ पुरोविद्यमाने गतिसंशके स्त इत्यर्थः । सत्कृत्येति । भादरं कृत्वेत्यर्थः । असत्कृत्येति । अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप् । भूषणऽलम् । भूषणे विद्यमानम् अलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वे. त्यर्थः । कृविषयेति । कृञ्योग एव भवतीत्यर्थः । वस्तुतस्तु संकोचे प्रमाणाभावाद् धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तियुक्ता । अत एव अल भुक्त्वा ओदनं गत इति वृत्तिकता प्रत्युदाहृतम् । अन्तरपरिग्रहे। अपरिग्रहे वर्तमानम् अन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। हतं परिगृह्येति । हत्वा गमनं हतम् अपरिगृह्य परिगृह्य वा भवति । तत्र आद्यमुदाहरणम् , द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् । कणेमनसी श्रद्धाप्रतीघाते । कणे ज्ञब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञको स्तः । अत्यन्ताभिलाषः श्रद्धा, तस्या निवृत्तिः प्रतीघातः । कणेहत्येति । गतिसमासे क्त्वो ल्यप् । मनोहत्येति । पयः पिबतीत्यनुषज्यते । ननु समासे कृते कणे इति सप्तम्याः कथं न लुगित्यत आह-कणे शब्द इति । ननु श्रद्धाप्रतीघातस्य कथमिहावगतिः, श्रद्धावाचकशब्दाभावात् । मनसो घाते सति कथं वा पयःपानमित्यत आह-अभिलाषातिशय इति । कणेशब्द इत्यनुष'अनितिपरम्' इत्यत्र इतिः परो यस्मात्तद् इतिपरम् , न इतिपरमनितिपरमिति बहुव्रीहिघटितनञ्तत्पुरुषाश्रयणात् । स्यादेतत्-अनुकरणस्येतिशब्दपरत्वे क्रियायोगाभावाद्गतिसंज्ञा नास्तीति खाडिति कृत्वेति रूपं निर्बाधम् , किमनेनानितिपरग्रहणेनेति चेत् , अत्राहुः-इतिकृत्वेति समुदाय एवायं कृत्वेत्यर्थे वर्तते। तथा च इतिशब्दः क्रियाविशेषकः, इति तटितसमुदायस्य क्रियावाचकत्वादस्त्येव क्रियायोग इति । हतं परिगृह्येति । हत्व' गमनं द्विधा--हतं त्यक्त्वा परिगृह्य चेति । आद्यमुदाहरणम् , द्वितीयं तु प्रत्युदाहरणम् । अपरिग्रह इति च प्रयोगोपाधिः, न तु वाच्यकोटिनिविष्टमिति भावः । कणेहत्येति । अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः । तथा च श्रद्धाया अपगमात्तत्प्रतिघात्मे गम्यते। प्रत्युदाहरणं तु कणे हत्वा गतः । सूक्ष्म