________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६३
ऽव्ययम् । (१-४-६७) पुरस्कृत्य । ७६६ अस्तं च । ( १-४-६६ ) अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । श्रस्तंगस्य । ७७० अच्छ गत्यर्थवदेषु । ( १ -४-६६ ) अव्ययम् इत्येव । प्रच्छुगस्य । प्रच्छोच । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् - जलमच्छं गच्छति । ७७१ श्रदोऽनुपदेशे । ( १-४-७० ) अद-कृत्य भदः कृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम्-प्रदः कृत्वा अदः कुरु । ७७२ तिरोऽन्तर्छौं । (१-४-७१ ) । तिरोभूय । ७७३
I
ज्यते । 'परावरयोगे च' इति सूत्रेण क्त्वा । श्रभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः । श्रद्धाप्रतीघाते किम् ? कणे हत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनो हत्वा गतः, विषपानादौ मनःप्रवृतिं प्रतिबध्य गत इत्यर्थः । पुरोऽव्ययम् । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् ? पुरम्, पुरौ, पुरः कृत्वा गतः । अस्तं च । पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह- मान्तमव्ययमिति । अस्तङ्गत्येति । तिरोधानं प्राप्येत्यर्थः । अव्ययं किम् ? काण्डम् श्रस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । श्रच्छुगत्यर्थवदेषु । गत्यर्थधातुषु वदधातौ च प्रयुज्यमानेषु अच्छेश्यव्ययं गतिसंज्ञकं स्यात् । श्रच्छ्रगत्येति । गतिसमासे क्त्वो ल्यप् । श्रच्छोघेति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यप् । अच्छेत्यव्ययमाभिमुख्ये, तद्यथा-बर्हिरच्छंतीति । तदाह - श्रभिमुखमिति । जलमच्छं गच्छतीति । अत्राच्छशब्दस्य नाव्ययत्वम्, न गतिसंज्ञा, नापि 'प्रामीश्वरान्निपाताः' इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वाद् विभक्तिलुक् स्यादिति मावः । अदोSनुपदेशे । प्रदश्शब्दः अनुपदेशे गतिसंज्ञः स्यात् । श्रदः कृत्येति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । श्रद कृतमिति । 'गतिरनन्तरः' इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । श्रदः कुर्वित्यादावित्यर्थः । तिरोऽन्तर्धौ । अन्तर्धिः व्यवधानम्, तत्र तिरस् इत्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । तिरोभूयेति । गतिसमासे क्स्वो ल्यप् ।
स्तण्डुलाबयवः कणः, तस्मिन् हत्वेत्यर्थः । पुरस्कृत्येति । 'पूर्वाधरावराणाम्–' इत्यसिप्रत्ययान्तोऽयमव्ययम् । 'नमस्पुरसोः -' इति विसर्गस्य सः । 'अमुं पुरः पश्यसि ' इत्यत्र तु स्थितमित्यध्याहारेण दृर्शि प्रत्यगतित्वात्सत्वाभावः । श्रन्ययं किम्, पुरं पुरौ पुरः कृत्वा गतः । श्रस्तं च । श्रव्ययमिति किम्, अस्तं कृत्वा काराडं गतः, क्षिप्तमित्वर्थः । अच्छमिति । सत्यां हि गतिसंज्ञायां निपातसंज्ञाकत्वेनाव्ययत्वात्सुतुक् स्यादिति भावः । अद्ःकृत्येति । यदा स्वयमेव पर्यालोचयति 'अदः कृतम्' इवि