________________
६४]
सिद्धान्तकौमुदी। [तत्पुरुषसमासविभाषा कृत्रि। (१-४-७२)। तिरस्कृत्य, तिर कृत्य, तिरः कृत्वा । ७७४ उपाजेऽन्वाजे । (१-४-७३)। एतौ कृषि वा गतिसंज्ञौ स्तः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः । ७७५ साक्षात्प्रभृतीनि च । (१-४-७४) कृषि वा गतिसंज्ञानि स्युः। 'व्यर्थ इति वाच्यम्' (वा ११४२) । साक्षात्कृत्य, साक्षात् कृत्वा । लवणंकृस्य, बवणं कृत्वा । मान्तत्वं निपातनात् । ७७६ अनत्याधान उरसिमनसी। (१-४-७५)। उरसिकृत्य, उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य, व्यवहितो भूत्वेत्यर्थः । विभाषा कृत्रि । कृषि प्रयुज्यमाने तिरस् इत्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरस्कृत्य तिर कृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् । 'तिरसोऽन्यतरस्याम् ' इति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात् सत्वविधौ गतिग्रहणं नानुवर्तयन्ति । उपाजऽन्वाजे । उपाजेकृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप्। अन्वाजेकृत्येत्यपि तथैव । उपाजे, अन्वाजे इत्यव्यये दुर्बलस्य बलाधाने वर्तते । तदाह-दुर्बलस्येति । साक्षात्प्रभृ. तीनि च । शेषपूरणेन सूत्रं व्याचष्टे-कृषि वेति । साक्षादित्यव्ययम् । व्यर्थ इति । अभूततद्भावे गम्ये सतीति वक्तव्यमित्यर्थः। साक्षात्कृत्येति । अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः। गतित्वपक्षे क्त्वो ल्यप्। तत्र सुब्लुकमाशङ्कयाह-मान्तत्वमिति। लवणम् , उष्णम् , शीतम् , उदकम् , आद्यम् इति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यत इत्यर्थः । अनत्याधाने । उरसि मनसि इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तः अनत्याधाने। उरसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । इह अत्याधानं न गम्यत इत्याह-अभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । तदेदमुदाहरणम् । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम् । प्रत्युदाहरणमिति । अदःकृत्वा अदःकुर्वित्यादीत्यर्थः । तिरोऽन्तौ । अन्तर्धा किम् , तिरोभूत्वा स्थितः । पार्वतो भूत्वेत्यर्थः । विभाषा कृषि । तिरस्कृत्वति । गतित्वाभावपक्षे 'तिरसोऽन्यतरस्याम्' इति सत्वमपि न भवति । तद्विधौ गतिग्रहणानुवृत्तेः । माधवस्तु--पराभवे तिरस्कार इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृत्ति केचिनच्छन्तीत्याह--उपाजेऽन्वाजे । एतौ विभक्तिप्रतिरूपको निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते, तदाह-दुर्बलस्येति । साक्षात्प्रभृ । साक्षात् । मिथ्या । अमा। श्रद्धा । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसंज्ञासंनियोगेन लवणादीनां पञ्चानां मकारान्तत्वं निपात्यते। प्रादुस् । नमस् । आविस् । इत्यादि । प्राकृति