________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपरखेषणम्, तत्र न । उरसि कृत्वा पाणि शेते । ७७७ मध्ये पदे निवचने च । (१-४-७६)। एते कृमि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य, मध्ये कृस्वा । पदेकृत्य, पदे कृत्वा । निवचनेकृस्य, निवचने कृरवा । वाचं नियम्येत्यर्थः । ७७८ नित्यं हस्ते पाणावुपयमने। (१-४-७७) कृषि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तकृत्य । पाणौकृत्य । ७७६ प्राध्वं बन्धने । (१-४-७८) प्राध्वम् इत्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे इहापि नात्याधानं गम्यत इत्याह-निश्चित्येत्यर्थ इति । अत्याधानशब्दं वित्रएवन् तस्य प्रयोजनमाह-अत्याधानमुपश्लेषणमिति। संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गति. संज्ञेति भावः । मध्ये पदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते । मध्ये कृत्येति । गतिसमासे क्त्वो ल्यप् । मध्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति। वचनाभावं कृत्वेत्यर्थः । तदाहवाचं नियम्येत्यर्थ इति । वचनस्य अभावो निवचनम् । अर्थाभावे अव्ययीभाव इति भावः । नित्यं हस्ते । शेषपूरणेन सूत्रं व्याचष्टे-कृतीति । हस्ते इति पाणाविति च शब्दौ कृत्रि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत् । हस्तेकृत्य पाणौकृत्येति । कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वं चानयो. निपात्यते । उपयमने किम् ? हस्ते कृत्वा सुवर्ण गतः। अन्यदीयमिति बुद्धघा दातुं परावृत्त इत्यर्थः । प्राध्वं बन्धने । प्राध्वमिति न द्वितीयान्तमित्याह–प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वंगणोऽयम् । साक्षात्कृत्येति । असाक्षाद्भूतं यथा साक्षाद् भवति तथा कृत्वेत्यर्थः । च्च्यन्तेषु तु पूर्वविप्रतिषेधाद् 'ऊर्यादिच्चिडाचश्च' इति नित्यैव संज्ञा । तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति। तद्धि पाक्षिकम् , गतिसंज्ञासंनियोगेनेह गणे निपातनात् । भाष्यकृता लवणशब्दस्य लवणीशब्दस्य वा विकल्पेन लवणशब्द प्रादिश्यते तस्य च संज्ञाविकल्प इत्युक्तम् । उभयथापि त्रैरूप्यं निधिम् । अनत्या । उरसिमनसीविभक्तिप्रतिरूपको। मध्ये पदे । 'विभाषा कृत्रि' इति वर्तते । चकाराद् 'अनत्याधाने' इति च । एषामनत्याधानरूपार्थविशेषे एदन्तत्वमविशेषेण निपात्यते, न तु गति. संज्ञसंनियोगेन । अनत्याधाने किम् , पदे कृत्वा शिरो नमति । वाचं नियम्येति । निवचनं हि वचनाभावः । अर्थाभावेऽव्ययीभावः । नित्यं हस्ते । उपयमनरूपार्थ एवैतयोरेदन्तमौदन्तत्वं च निपात्यते। हस्तेकृत्येति । परिणीयेत्यर्थः । उपयमने