________________
६६ ]
सिद्धान्तकौमुदी ।
[ तत्पुरुषसमास
प्राध्वं कृत्वा । ७८० जीविकोपनिषदावौपम्ये । (१-४-७६ ) जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम्जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । 'प्रादयो ताद्यर्थे प्रथमया' ( वा १३३५ ) प्रगत प्राचार्यः प्राचार्य: । 'प्रत्यादयः क्रान्ता
कृत्येति । गतिसमासे क्त्वो ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन श्रानु कूल्ये वर्तते, तदाह — बन्धनेनेति । बन्धनग्रहणस्य प्रयोजनमाह -- प्रार्थनादि - नेति । जीविकोपनिष । उपमैव औपम्यम्, तस्मिन्विषये जीविकाशब्दः, उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव श्रवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद् वेदान्तभागः, तामिव रहसि ग्राह्यत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गतिसमासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं 'कुगतिप्रादयः' इत्यत्रत्यगतिसमासाः प्रपञ्चिताः । ननु गतिप्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह— प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाभावान गतित्वम् । भाष्ये तु ‘कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थाने 'कास्वतिदुर्गतयः समस्यन्त इति वक्तव्यम्' इत्युक्त्वा 'कुब्राह्मणः, आकडारः, सुब्राह्मणः, अतिब्राह्मणः, दुर्ब्राह्मणः, दूरीकृत्य' इत्युदाहृतम् । स्वती पूजायाम्, दुर्निन्दायाम्, प्राङीषदर्थे, कुः पापार्थे इति सौनागव्याकरणवचनम् इति भाष्ये स्पष्टम् । अत्र वार्तिकानीति । 'प्रादयो गताद्यर्थे समस्यन्त इति वक्तव्यम् ' इति वार्तिकं पठित्वा तत्र व्यवस्थापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदर्श्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्रगत श्राचार्य इति । प्रेत्यस्य विवरणं गत इति, गत श्राचार्य इत्येव श्रस्वपदविग्रहः, नित्यसमासत्वात् । श्रभिगतो मुखम् श्रभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि ।
किम्, हस्ते कृत्वा कार्षापणं गतः । स्वीकारमात्रमिति पक्षे तु नालमिति बुद्धया परावृत्त्य दानार्थ गत इति योज्यम् । एवं तावद् गतिसमासनुदाहृत्य प्रादिसमासान् वक्तुमारभते । प्रादिग्रहणमिति । सुपुरुष इति । क्रियायोगाभावाद् गतित्वाभावः । अव्यवस्थया समासप्रसक्तौ व्यवस्थाप्रवचनानि पठ्यन्ते । प्रादय इति । आदिशब्द उभयत्र प्रकारे । तेन दुराचारः पुरुषो दुष्पुरुष इत्यादि सिद्धम् । प्रगत श्राचार्य इति । अनेन गतार्थे वृत्तिमस्वपदविग्रहेण नित्यसमासतां च दर्शयति । एवं प्रगतः पितामहः प्रपितामहः । प्रमातामह इत्यादि । श्रत्यादय इति । आदिपदादमिनतो