________________
प्रकणरम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ६७
।
द्यर्थे द्वितीयया' ( वा १३३६ ) | ( प्रतिकान्तो मालामतिमालः । 'अवादयः क्रुष्टाद्यर्थे तृतीयया' ( वा १३३७ ) (अक्कुष्टः कोकिलया अवकोकिलः । 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' ( वा १३३८) । (परिग्लानोऽध्ययनाय पर्यध्ययनः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' ( वा १३३६ ) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । 'कर्मप्रवचनीयानां प्रतिषेधः' ( वा १३३६ ) वृक्षं प्रति । ७८१ तत्रोपपदं सप्तमीस्थम् । ( ३-१-१२ ) सप्तम्यन्ते पदे 'कर्मणि -' ( सू २११३ )
1
अत्यादय इति । क्रान्ताद्यर्थे प्रत्यादयः समस्यन्त इत्यर्थः । अतिक्रान्तो मालामिति । प्रतिशब्दः कान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः । तत्र क्रमुधातोरतिक्रमणमर्थः । तिमाल इति । 'एकविभक्ति च-' इति मालाशब्दस्य उपसर्जनत्वाद् ‘गोस्त्रियोः-' इति ह्रस्वः । श्रवादय इति । कुष्टाद्यर्थे प्रवादयः समस्यन्त इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय अध्ययनार्थम्, तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कौशाम्बिरिति । अतिमालवद् ह्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति । 'लक्षणेत्थम् -' इति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदं तु वार्तिकं भाष्ये प्रत्याख्यातम् । अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह - तत्रोपपदं सप्तमीस्थम् । अधिकारोऽयम् । सप्तमीति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसंबन्धेन तिष्ठतीति सप्तमी - स्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषु 'कर्मण्यण्' इत्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम् । एवं च तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नम् । कुम्भादेश्च उपपदसंज्ञायां प्रयोजनाभावात्तद्वाचकपदेषु विश्राम्यति । तथा च धातोरित्यधिकारान्तर्गत कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं कर्मणीत्यादि तद्वाच्यं यत् कुम्भादि तद्वाचकं पदम् उपपदसंज्ञं स्यादित्यधिकृतं वेदितव्यमित्यर्थः फलति । तदाह – सप्तम्यन्ते पद इत्यादिना । तत्र ' धातोः कर्मणः समानकर्तृकात्- '
मुखमभिमुखः । उद्भतो वेलामुद्वेलः । प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि सिद्धम् । श्रतिमाल इति । 'गोस्त्रियोः -' इति ह्रस्वः । अवादय इति । आदिपदात् परिणद्धो वीरुधा परिवीत् । संनद्धो वर्मणा संवर्मेति । पर्यादय इति । दिपदादुद्युक्तः सङ्ग्रामाय उत्सङ्ग्रामः । अध्ययनायेति । तादर्थ्ये चतुर्थी । गुरुकुलवासादिना परिग्लानोऽध्ययनार्थमित्यर्थः । निरादय इति । आदिपदादुत्क्रान्तः कुलादुत्कुलः । निर्गतमङ्गु