________________
१८]
सिद्धान्तकौमुदी। [तत्पुरुषसमासइत्यादौ वाच्यत्वेन स्थितं कुम्भादि, तद्वाचकं पदमुपपदसंशं स्यात् । तस्मिंश्च सत्येव वश्यमाणः प्रत्ययः स्यात् । ७८२ उपपदमतिङ् । (२-२-१६) उपपदं इति, 'धातोरेकाचो हलादेः-' इति 'धातोः' इति च क्रमेण त्रयो धात्वधिकाराः। तत्र प्रत्यासत्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणाद् 'धातोरेकाचः-' इत्यधिकारे 'च्लि लुङि' इत्यत्र सप्तम्यन्तं न गृह्यते । अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदे धातोः चिलरित्यर्थः स्यात् । ननु तत्रति व्यर्थम् , तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसंभवादित्याशङ्कयाह-तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यादिति । अयमाशयः । तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम् । सप्तमीस्थमुपपदसंज्ञं स्यात् । तत्र-तस्मिन्सति इति चाधिकृतं वेदितव्यमिति । तथा चोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादिति तत्रेत्यस्यार्थः फलति। तथा च 'कर्मण्यण' इत्यत्र इदं सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते। सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्त्यर्थः। धातोरण स्यात् कर्तर्यर्थे, कर्मवाचकं तु कुम्भादिपदम् उपपदसंज्ञं प्रत्येतव्यम् , तस्मिन्नुपपदे सत्येव अण स्यादिति फलति । तस्मिन् सत्येवाण स्यादित्यभावे तु कार इत्येवं केवलादपि धातोः कर्तर्यर्थे अण्प्रत्ययः स्यात् । लिभ्यो निरगुलम् । प्रतिषेध इति । 'कुगतिप्रादयः' इति प्रसक्तसमासस्य वक्तव्यः प्रतिषेधः, स च 'सुराजा, अतिसखा' इति भाष्यादिप्रयोगात्स्वतिभिन्नानामेव कर्मप्रवचनीयानामित्यर्थः । वृक्षं प्रतीति । 'लक्षणेत्थंभूता-' इति कर्मप्रवचनीयत्वविधिसामर्थ्यादिह समासो नेति चेत् , तर्हि अपिस्तुतमित्युदाहार्यम् । 'अपि स्तुयाद्विष्णुम्' इत्यादौ 'अपिः पदार्थसंभावना-' इत्यस्य सावकाशत्वात्स्वरे विशेषसत्त्वाच्चेत्याहुः । तत्रोपपदम् । सप्तमीस्थमित्येतद्याचष्टे--सप्तम्यन्त इत्यादिना तद्वाचकं पदमिति । एतच्चोपपदमित्यन्वर्थसंज्ञाबलाल्लभ्यते। अत एव संज्ञाविधावपि सप्तमीग्रहणेन सप्तम्यन्तं गृह्यते । 'धातोः' इति पृथगधिकारबलात् 'संनिहिते धात्वधिकारे' इति लभ्यते । तेन 'च्लि लुटि' इत्यस्य लुङन्ते अभूदित्यादावुपपदे धातोश्च्लिरित्यर्थो न भवति । तत्रग्रहणं व्याचष्टे-तस्मिन् सत्येवेति । उपपदे सत्येवेत्यर्थः । तत्रग्रहणाभावे तु 'धः कर्मणि ष्ट्रन्' इत्यादाविव 'कर्मण्यम्' इत्यादावपि कर्मण्य. भिधेये अणित्याद्यर्थः स्यात् । तथा च कर्तर्यण प्रत्ययो न स्यात् । किं च सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थतया चरितार्थत्वात्केवलादपि धातोः कर्तर्यणप्रत्ययः संभाव्येत, कृते तु तत्रग्रहणे कुम्भायुपपदस्य प्रत्ययोत्पत्ती निमित्तत्वप्रतीत्या केवलादणप्रत्ययशव नास्ति । एवं स्थिते 'धः कर्मणि-' इत्यादौ क्वचिदर्थग्रहणं व्याख्यानादित्याहुः। अन्ये तु 'तत्रोपपदम्-' इत्यस्य 'कर्मण्यण' इत्यादेश्चैकवाक्यतया प्रवृत्तावुपपदसंज्ञाया