________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ εε
,
सुबन्तं समर्थेन नित्यं समस्यते । श्रतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् - मा भवान् भूत् । 'माङि लुङ्' ( सू २२११ ) इति सप्तमीनिर्देशान्माडुपपदम् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य ' उपपदमतिङ् इति नित्यसमाससपादनेन कुम्भ इत्यस्य कार इत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः । तस्मिन्नुपपदे सत्येवाग् स्यादित्युक्ते तु कुम्भाद्युपपदस्य अण्प्रत्ययोत्पत्तौ निमित्तत्वावगमाः केवलादरप्रत्ययः, उपपदसंज्ञायाः प्रत्ययविधिसंनियोगशिष्टत्वलाभात् । ‘धः कर्म ॥ ष्ट्न्’ 'भुवो भावे' इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव, व्याख्यानादिति भाष्यकैयादिषु स्पष्टम् । उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्थेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । तिङन्तश्चायं समास इति । सूत्रे तिङिति तदन्तप्रहणमिति भात्रः । समासः तिङन्तघटितो न भवतीत्यर्थः । तिङ् किम् ? कारको व्रजति । 'तुमुलौ क्रियायां क्रियार्थायाम्' इति व्रजतावुपपदे कृञो वुल् अकादेशः । उपपदं समर्थेनेत्येतावत्युक्ते इहाप्युपपदसमासः स्यात् । अतः अतिङ्ग्रहणम् । नचैवं सुबित्यनुवृनेः प्रयोजनाभाव इति वाच्यम्, चर्मकार इत्यत्र नलोपार्थकत्वात् । उपपदमतिङन्तं समर्थेन समस्यत इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च चर्मकार इत्यत्र लोपो न स्यादिति भावः । कुम्भमिति । कुम्भं करोतीत्यर्थे 'कर्मरायण' इति भूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि प्रत्यये 'चो ति' इति वृद्धं रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम् अतिङन्तः समास इत्युक्तत्वादित्यत आह—म्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगानईत्वमलौकिकत्वम् । ' प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अलौकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम् कार इत्यपाठः, कुद्योगे षष्ठया विधानात । मा भवान् भूदिति । अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदं तु निर्विषयत्वापत्तेस्त त्रग्रहणं विनापीष्टं सिद्धयत्येवेत्याहुः । उपपदमतिङ् । समर्थेनेति । तेन महान्तं कुम्भं करोतीत्यादौ नातिप्रसङ्गः । तिङन्तश्चेति । सुबिति तु अनुवर्तत एवेति तिङन्तमिति नोक्तमिति भावः । कुम्भ असिति । श्रमिति तु नोक्तम्, कृद्योगे षष्ठीविधानात् । अतिङ् किमिति । 'सुपा' इत्यधिकारात्किमनेनेति प्रश्नः । इतरो वक्ष्यमाणं ज्ञापकं मनसि निधाय प्रत्युदाहरति-- मा भवानिति । समासाभावसूच
,