________________
१०० ]
सिद्धान्तकौमुदी ।
[ तत्पुरुषसमास
प्रतिग्रहणं ज्ञापयति सुपा इत्येतत्रेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिग्रहणं तत्रापकृष्यते । सुपा इति च निवृत्तम् । तथा च 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' ( प ७६ ) इति सिद्धम् । ब्यानी । अश्वक्रीती । कच्छपी । ७८३ श्रमैवाव्ययेन । (२-२-२० ) अमैव
1
2
समासाभावसूचनाय मध्ये प्रयुक्तम् । ननु माङ: तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु दृष्टम् येन तस्य उपपदत्वात् समासः प्रसज्यत इत्यत आह-- माङिति । ननु अतिङ्ङ्ग्रहणं व्यर्थम्, मा भवान् भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसंभवादित्यत आह— अतिङ्ग्रहणमिति । एवं च उपपदम् सुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह - पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रे अनुवृत्तिरपकर्षः । ' कुप्रादयः' इति 'गति' इति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह—तथा चेति । गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेः प्राक् समासो वक्तव्य इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिभाषेयं सिध्यति अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति-- व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः । व्याङ्पूर्वाद् घ्राधातोः ‘श्रतश्चोपसर्गे' इति कः, 'आतो लोप इटि च' इत्याल्लोपः । 'पाघ्रामाहशश्शः' इति तु न भवति, 'जिघ्रतः संज्ञायां नेति वाच्यम्' इति निषेधात् । आये प्रशब्देन गतिसमासः । घ्रशब्देन वेः गतिसमासः । तत्र यदि प्रशब्दस्य सुबन्तत्वमपेक्ष्येत तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात, स्वार्थद्रन्यलिङ्गसंख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्य ' कुत्सिते' इति सूत्रस्थभाष्यदर्शितस्य ब्याप्प्रातिपदिकात् इत्यत्र अस्माभिः प्रपञ्चितत्वात् । ततश्च सुबुत्पत्तये लिङ्गसंख्याकारकं क्रमेण अपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति प्रदन्तत्वात् टाप् स्यात् । न तु जातिलक्षणङीष्, प्रशब्दमात्रस्य जातिवाचित्वाभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्य
नाय भवानिति मध्ये प्रयुक्तम् । पूर्वसूत्र इति । 'कुप्रादयः गतिः' इति योगं विभज्य 'कुप्रादयः सुबन्ताः सुवन्तेन समस्यन्ते, गतिस्तु सुबन्तोऽतिङन्तेन समस्यत इति व्याख्येयमित्यर्थः । तथा चेति । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभ:, तथापि त्रितयविषयिणी प्राचां परिभाषा एकदेशानुमतिद्वारा इहापि ज्ञाप्यत इति भवः । कारकांशे तु 'कर्तकरणे कृता-' इति सूत्रस्थबहुलग्रहणमुक्तार्थे साधकमित्यपि मनोरमायां स्थितम् । प्रागिति । कृदन्ताश्चरमपदात्सुबुत्पत्तेः पूर्वं समास इत्यर्थः । प्रथमान्तसुब्ग्रहणं विहानुवर्तत एव । तेन राजदर्शीत्यादौ पूर्वपदे नलोपादि कार्य सिद्धयति । परिभाषा -