________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता।
[१०१
अदन्तत्वाभावाद् जातिलक्षणो जी ने स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिवम् , तथापि गतित्वसंभवमात्रणेदमित्याहुः । वस्तुतस्तु आगे घ्राशब्देन उपपदसमासः, 'आतश्योपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंश गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति--प्रश्वक्रीतीति । परवेन क्रीतेति विग्रहे 'कर्तृकरणे कृता-' इति समासः । 'क्रीतात्करणपूर्वात्' इति ष् । सुबन्तेन समासे तु उक्तरीत्या पूर्व टापि अदन्तत्वाभावाद् अष् न स्यादिति भावः । उपपदसमासमुदाहरति--कच्छपीति । कच्छः तीरम् , तेन तस्मिन् वा पिवीति कच्छपी। 'सुपि स्थः' इत्यत्र 'सुपि' इति योगविभागात् कः, उपपदसमासः । तस्व सुबन्तापेक्षायाम् उक्तरीत्या टाबेव स्यात् , न तु जातिलक्षणीषिति भावः । अमैवाव्ययेन । अमेवेत्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । 'तुल्याईरतुलोफलं दर्शयन् गतिमुदाहरति-व्याघ्रीति । व्याजिघ्रतीति व्याघ्री। 'आतश्चोपसर्गे' इति कः । 'पाघ्राध्माधेट-' इति शस्तु संज्ञायां न भवति, व्याघ्रादिमिरिति निर्देशादिति वक्ष्यते । व्याडोभ्रंशन्देन गतिसमासः । स यदि घ्रशब्दस्य सुबन्ततामपेक्षेत, तर्हि सुबुत्पत्तये संख्याद्यपेक्षेत । ततः प्रागेव लिङ्गयोग इति लिङ्गनिमित्तप्रत्ययेन टापा भाव्यं न तु ङीषा । घ्रशब्दमात्रस्य जातिवाचित्वाभावात् , ततो घ्रशन्देन समास इत्यदन्तत्वाभावाजातिलक्षणो जीष् न स्यादिति भावः। यद्यप्युपपदत्वेनाप्येतसिद्धम् , तथापि गतिग्रहणमाडो घ्रशब्देन सामासे पश्चादाघ्रशन्देन विशब्दस्य समासार्थमावश्यकमेव । आपूर्वाद्धातोः कप्रत्ययविधानादाव्यपपदसंज्ञाभ्युपगमेऽपि विशन्दे तदनभ्युपगमादिति बोध्यम् । कारकमुदाहरति-अश्वक्रीतीति । अश्वेन क्रीता । 'कर्तृकरणे कृता-' इति समासः । 'क्रीतात्करणपूर्वात्' इति छी । सुबन्तेन समासे तु टापा भाव्यमित्यदन्तत्वाभावात् 'क्रीतात्करण-' इत्ययं ीष् न स्यादिति झेयम् । उपपदमुदाहरति-कच्छपीति । कच्छेन पिबतीति कच्छपी। 'सुपि' इति योगविभागात्कः । इहापि समासस्य सुबन्ततापेक्षायां टावेव स्यान मीषिल्यादिव्याघ्रीत्यत्रेय बोध्यम् । प्राचा तु 'उपपदमतिङन्तं समस्यते' इत्युक्तम् , तदसत् । तथा सति प्रथमान्तसुग्रहणनिवृत्त्यापत्त्या राजदर्शी चर्मकार इत्यादौ नलोपो न स्यादपदान्तत्वात् । प्राटितत्यादौ 'अतो गुणे' इति पररूपं च स्यात् । स्यादेतत्--कच्छेन साधनेन पिवती. त्यर्थाभ्युपगमे कच्छस्य कारकत्वेन कच्छपीति रूपसिद्धौ नेदमुपपदस्यासाधारणोदाहरणमिति चेत् , एवं तर्हि माषवापिणीत्युदाहर्तव्यम् । 'सुप्यजाती-' इति णिनौ कृते माषोपपदस्य कृदन्तेन समासे 'प्रातिपदिकान्त-' इत्यादिना पूर्वपदस्थानिमित्तात्परस्य समासप्रातिपदिकान्तनकारस्य णत्वं सिद्धयति । सुबन्तेन समासे त्वन्तरत्वानान्त