________________
१०२ ]
सिद्धान्तकौमुदी ।
[ तत्पुरुषसमास
तुल्यविधानं यदुपपदं तदेवान्ययेन सह समस्यते । स्वादुङ्कारम् । नेह - 'कालसमयवेलासु तुमुन्' ( सू ३१७९ ) । कालः समयो वेला वा भोक्तुम् । श्रमैवेति किम्- श्रग्रे भोजम् — श्रग्रे भुक्वा । ' विभाषाऽप्रेप्रथमपूर्वेषु' ( सू ३३४५) इति क्वाणमुलौ । श्रमा चान्येन च तुल्यविधानमेतत् । ७८४ तृतीयाप्रभृतीन्यन्यतरस्याम् । ( २-२-२१) 'उपदंशस्तृतीयायाम्' ( सू पमाभ्याम्—' इति तृतीया । श्रमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण मैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमित्याह —तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते श्रमा तुल्यविधानत्वे अवधारणार्थत्वात् । स्वादुंकारमिति । स्वादुं कृत्वेत्यर्थः । श्रोदनं भुङ्क्त इति शेषः । ' स्वादुमि णमुल्' इति णमुल्, स्वादुशब्दस्य मान्तत्वं निपातनात् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । तदेवेति नियमस्य प्रयोजनमाह -- नेहेति । उपपदसमास इति शेषः । भोक्तुमिति । यद्यपि 'कालसमयवेलासु-' इति सप्तमीनिर्देशात् कालसमय वेलानामुपपदत्वम्, तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा । अत एव काला दीनामुपपदत्वेऽपि न समास इत्यर्थः । श्रमैवेति किमिति । श्रमैवेत्येवकारः किमर्थ इि प्रश्नः । श्रमा चान्येन चेति । श्रम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य श्रमैव तुल्यविधानत्वाभावाद् न उपपदसमास इति भावः । तृतीयाप्रभृतीन्यन्यतरस्याम् । तृतीयाशब्देन 'उपदंशस्तृतीयायाम्' इत्यारभ्य ‘अन्वच्यानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि | अमेति, अव्ययेनेति चानुवर्तते, एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्ययविशेषलक्षणे ङीपि पश्चाद्वापिनीशब्देन समासे गर्गभगिनीत्यत्रेव णत्वं न स्यादित्येके । अन्ये तु कच्छेन हेतुना पिबतीत्यर्थविवक्षायां कच्छ स्याकारकत्वात्कच्छपीत्युपपदस्योदाहरणं सम्यगेवेत्याहुः । श्रमैवाव्ययेन । पूर्वेण सिद्धे नियमार्थमिदम् । तुल्यविधानमिति । एतच्चाध्याहारेण लभ्यम् । तदेवेति । यस्मिन्नुपपदे येन वाक्येन मेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः । नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः । स्वादुंकारमिति । ' स्वादुमि णमुल् ' । व्य कारः । असति ह्यव्ययग्रहणे मैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्यते । तथा सति ‘स्वादुंकारः' इत्यत्रैव समासः स्यान्न तु कुम्भकार इत्यत्र । अथ पूर्वसूत्रवैयर्थ्यभीत्या अव्ययविषयकनियम इति चेत्, तर्हि श्रमन्तविषयक एव किं न स्यात्, 'अमन्तेन यः समासः सोऽमैव तुल्यविधानस्य' इति । तथा चाग्रेभोजमित्यत्र समासो
कुम्भ