________________
प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०३
३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदेशं भुङ्क्ते - मूलकोपदंशम् । उचै-कारम् । ७८५ क्त्वा च । ( २-२-२२) नृतीयाप्रभृतीन्युपपदानि क्स्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य, उच्चैः कृत्वा । 'अव्ययेऽयथाभिप्रेत-' ( सू ३३८१ ) इति क्वा । तृतीयाप्रभृतीनीति किम्अलं कृत्वा, खलु कृत्वा । ७८६ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः । णम् । तदाह--उपदंशस्तृतीयायामित्यादिना । मूलकेन उपदंशं भुङ्क्ते मूलकोपदंशमिति । 'उपदंशस्तृतीयायाम्' इति णमुल् । अमेव तुल्यविधानत्वात् पूर्वसूत्रेण नित्यं' प्राप्ते विकल्पोऽयम् । ननु मूलकेनेत्यस्य भुङ्क्त इत्यत्रैवान्वयाद् उपदंश इत्यत्रानन्वयादसामर्थ्यात् कथमिह समास इति चेत्, मैवम् - - उपदंशनक्रियां प्रति हि मूलकस्य आर्थिकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात् परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः । उच्चै कारमिति । उच्चैः कृत्वेत्यत्र तु 'अव्ययेsयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ' । तत्र उच्च कारमित्यत्र उपपदत्वस्य श्रमैव तुल्यविधानत्वाभावाद् ‘अमैवाव्ययेन' इत्यप्राप्ते अनेन विकल्पः । समासपक्षे 'आदिर्णमुल्य - न्यतरस्याम्' इति कृदुत्तरपदप्रकृतिस्वर श्रायुदात्तत्वम् । समासपचे तु उच्चैरिति फिट्सू. त्रेण अन्तोदात्तत्वमिति फले भेदः । श्रमन्तेनेति किम् ? पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु' इति तुमुन्। क्त्वा च । तृतीयाप्रभृतीनीति पूर्वसूत्रमनुवर्तते । क्त्वेति तृतीयार्थे प्रथमा । टायां ‘सुपां सुलुक् पूर्वसवर्ण-' इति पूर्वसर्वणदीर्घ इत्यपरे । तदाहतृतीयेति । ननु 'उपदंशस्तृतीयायाम्' इत्यतः प्रागेव समानकतृकयोरिति क्त्वाविधेः पाठात् कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह-- अव्यये ऽयथेति । 'अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ' इति सूत्रेणेत्यर्थः । श्रलं कृत्वेति । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इत्येतद् ' उपदंशस्तृतीयायाम्' इत्यतः पूर्वमेव पठितम् । अतः तद्विहितक्त्वो मान्तेन सह समासाभावाद् न ल्यबिति भावः । इत्युपपदसमासाः । मा भूत् अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः । तदेवेति किम् कालो भोक्तुम्, समयों भोक्तुम् । श्रमैवेत्येवकारेणामा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेव, अतस्तन्निवारणाय तदेवेत्युक्तम् । तृतीयाप्रभृतीन्यन्यतरस्याम् । उभयत्र विभाषेयम् । श्रमैव तुल्यविधानस्य प्राप्ते - Sमा चान्येन च तुल्यविधानस्याप्राप्ते चारम्भात् । प्राप्ते यथा - ' 'उपदंशस्तृतीयायाम्' मूलकेनोपदंशं मूलको पदंशम् । अप्राप्ते यथा - 'अव्ययेऽयथाभिप्रेताख्यान -' इति क्त्वाणमुलौ । उच्चैःकारम् । इह समासपक्षे कृदुत्तरपदप्रकृतिस्वरः 'श्रादिमुल्यन्यतरस्याम्' इत्याद्युदात्तत्वम् । समासे तु उच्चैरित्यन्तोदात्तत्वम् । 'उदि चेर्डेसिः' इति १ 'नित्ये' इति क्वचित् पाठः ।
,
---