________________
१०४]
सिद्धान्तकौमुदी। [तत्पुरुषसमास(५-४-८६) संख्याव्ययादेरङ्गल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । हे अगली प्रमाणमस्य ब्यङ्गलं दारु । निर्गतमखिम्यो निरङ्गलम् । ७८७ अहस्सर्वैकदेशसंख्यातपुण्याच रात्रेः । (५-४-८७) एभ्यो रानेरच्स्यात्, चासंख्याज्ययादेः । 'अहम्रहणं द्वन्द्वार्थम्' ( वा ३३५३) अहश्च रात्रिश्चाहो.
अथ तत्पुरुषेषु असाधारणसमासान्तान् वक्तुमुपक्रमते-तत्पुरुषस्यांगुले संख्याव्ययादेः। 'अच्प्रत्यन्ववपूर्वात्-' इत्यतः अजित्यनुवर्तते, समासान्त इत्यधिकतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकाराद् अच्प्रत्ययस्य तत्पुरुषात् परत्वेऽपि तस्य तदवयवत्वाद् अगुलेरिति अवयवषष्टी। अद्गुलेरिति तत्पुरुषविशेषणम् , तदन्तविधिः। तदाह-संख्याव्ययादेरिति । संख्या च अव्ययं च संख्याव्यये, ते आदी यस्येति विग्रहः। द्वयगुलमिति। तद्धितार्थे-' इति द्विगुः । 'प्रमाणे द्वयसज्दनञ्मात्रचः' 'प्रमाणे लः' 'द्विगोनित्यम्' इति लुक् । द्वयङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे 'यस्येति च' इति इकारलोपः । निरगुलमिति । 'निरादयः कान्ताद्यर्थे-' इति समासः, अच्, इलोपः । अहस्सवैकदेशसंख्यातपुण्याश्च । एभ्यो रात्रेरिति । अहन् , सर्व, एकदेश, संख्यात, पुण्य एभ्यः परस्य रात्रिशब्दस्येत्यर्थः। अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादिः रात्र्यन्तस्तत्पुरुषो नास्त्येव । अहो रात्रिरिति वा अहश्चासौ रात्रिश्चेति वा असंभवादित्यत आह-अहर्ग्रहणं द्वन्द्वार्थमिति । न च ब्रह्मणो यदहः तस्यावयवव्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तु 'फिषः' इत्यस्य च प्रवृत्तेरित्याहुः । मनोरमायां तु उच्चैरित्यन्तोदात्तस्वरादिषु तथा पाठादिति स्थितम् । अमेत्यनुवर्तत इत्याह--अमन्तेनेति । तेनेह न-पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु-' इति तुमुन् । क्त्वा च । क्त्वेति तृतीयान्तम् । 'प्रातः' इति योगविभागादालोपः, "क्त्वि स्कन्दिस्यन्दोः' इतिवदिति हरदत्तः । तन्न । सवर्णदीर्घेणापि तृतीयान्तत्वोपपत्तेः । प्रलं कृत्वेति । 'अलंखल्योः प्रतिषेधयोः' इति सूत्रस्य 'उपदंशस्तृतीयायाम्' इत्यस्मात्पूर्वत्वान्नेह समासः । तत्पुरुषे असाधारणान्समासान्तानाह-तत्पुरुषस्येति। अलोन्त्यविधि बाधित्वा 'प्रत्ययः' 'परश्च' इति परत्वात्तत्पुरुषात्पर एवाच्प्रत्ययो भवति । यथा गापोष्टकः कित्त्वऽपि गापाभ्यां पर एव टग् भवति, न त्वन्तावयवः । नमस्तु अनुबन्धकरणसामर्थ्यात्परविधिर्बाध्यते । एवं च लाघवात् 'तत्पुरुषादगुलेः-' इति वक्तव्ये 'तत्पुरुषस्याङ्गुलेः- इति तु समासान्तापेक्षया अवयवषष्ठीत्याहुः । द्यगुलमिति । तद्धितार्थ-' इति समासः। 'द्विगोर्नित्यम्' इति मात्रचो लोप इति वृत्तिकृत् । मनोरमायां तु द्वयसचो लुगिति स्थितम् । द्वन्द्वार्थमिति । अहो रात्रिरिति