________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०५ रात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः। द्वयो रात्र्योः समाहारो द्विरात्रम् । प्रतिक्रान्तो रात्रिमतिरानः । ७८८ राजाहस्सखिभ्यष्टच् । (५-४-६१) एतदन्तात्तत्पुरुषाट्टकस्यात् । परमराजः। प्रतिराजी कृष्णसखः । ७८ अष्टखोरेव । (६-४-१४५) एतयोरेव परतोऽहष्टिलोपः भूता या मानुषी रात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम् , अहर्ग्रहणं द्वन्द्वार्थमिति भाष्यप्रामाण्येन एवं जातीयकतत्पुरुषस्य प्रयोगाभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच् , इलोपः, 'जातिरप्राणिनाम्' इत्येकवत्त्वम् । ‘स नपुंसकम्' इति बाधित्वा, 'रात्राहाहाःपुंसि' इति पुंस्त्वम् । सर्वारात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहे 'पूर्वकालैक-' इति कर्मधारयः। अच, इकारलोपः। 'रात्राला-' इति पुंस्त्वम् । 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वम् । एकदेशत्यर्थग्रहणमित्यभिप्रेत्योदाहरति-पूर्वमिति । पूर्व रात्रेरिति विग्रहे 'पूर्वापराधरोत्तरम्-' इत्येकदेशिसमासः। अच् , इलोपः,'रात्राहा-' इति पुंस्त्वम् । संख्यातरात्र इति । संख्याता रात्रिरिति विग्रहे कर्मधारयः । 'पुंवकर्मधारय-' इति पुंवत्त्वम्। पुण्यरात्र इति । पुण्या रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय-' इति पुंवत्त्वम् । अच् इलोपः 'रात्राहा-' इति पुंस्त्वम् । द्विरात्रमिति। तद्धितार्थ इति द्विगुः । संख्यादित्वादच् , इलोपः । 'संख्यापूर्व रात्रं क्लीबम्' इति नपुं. सकत्वम् । अतिरात्र इति । 'अत्यादयः क्रान्ताद्यर्थे-' इति समासः । अव्ययादित्वा दच, इलोपः, 'रात्राहा-' इति पुंस्त्वम् । राजाहस्सखिभ्यष्टच् । 'तत्पुरुषस्या
गुलेः-' इत्यतः तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं राजाहस्सखिभ्य इत्यनेन विशेष्यते । तदन्तविधिः, तदाह-एतदन्तादिति । परमराज इति । परमश्चासौ राजा चेति विग्रहः । समासान्तष्टच् । 'नस्तद्धिते' इति टिलोपः । अतिराज इति । अतिक्रान्तो राजानमिति विग्रहः, 'अत्यादयः-' इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः समासान्तष्टच् । 'यस्येति च' षष्ठीतत्पुरुषस्यासंभवादिति भावः । ननु अहःशब्दस्याहस्तुल्यतायां रात्रिशब्दस्य वा रात्रितुल्यतायां गौणत्वसंभवादहश्चासौ रात्रिश्चेति कर्मधारयोऽस्त्विति चेन्न । मुख्यसंभवे गौणग्रहणायोगात् । 'हेमन्तशिशिरावहोरात्रे च-' इत्यत्र द्वन्द्व समासान्तदर्शनाच्च । अहोरात्र इति । 'जातिरप्राणिनाम्' इत्येकवद्भावः । ‘स नपुंसकम्' इत्येतद्बाधित्वा परत्वाद् 'रात्राहाहा:-' इति पुंस्त्वम् । एतेनैकवद्भावात् क्लीबतेति प्राची ग्रन्थः परास्तः । 'मासेन स्यादहोरात्रः' इत्यादिग्रन्थविरोधाच । सर्वरात्र इति । 'पूर्वकालैक-' इति समासः । पूर्वरात्र इति । 'पूर्वापराधरोत्तरम्-' इत्येकदेशि. समासः । यदा तु रात्रिशब्दस्यैकदेशे लक्षणां स्वीकृत्य कर्मधारयोऽभ्युपगम्यते तदा पूर्वरात्रिरित्येव भवति । द्विरात्रमिति । 'संख्यापूर्व रात्रं क्लीबम्' इति वक्ष्यते।