________________
१०६ ]
सिद्धान्तकौमुदी | [ तत्पुरुषसमास
स्यात्, नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्वयहीनः क्रतुः । तद्धितार्थे द्विगुः । 'तमधीष्टः-' (सू १७४४ ) इत्यधिकारे 'द्विगोर्वा' इत्यनुवृत्तौ 'राज्यहस्संवत्सरा' ( सू १७५१ ) इति खः । लिङ्गविशिष्टपरिभाषाया श्रनित्यत्वाब्वेह-मद्राणां राज्ञी मद्रराज्ञी । ७६० अहोऽह्न एतेभ्यः । ( ५-४-८८ ) सर्वादिभ्यः परइति इकारलोपः । अह्नष्टखोः । शेषपूरणेन सूत्रं व्याचष्टे – टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्माद् लोप इति चेति भावः । ' नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदमित्याह -- नान्यत्रेति । एवकारस्तु अह्न एव खोरिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् ? श्रह्ना निरृत्तम् आह्निकम्,' कालाट्ठञ्' इत्यधिकारे 'तेन निवृत्तम्' इति ठञ् । टिलोपाभावादल्लोपः । टप्रत्यये उदाहरति — उत्तमाह इति । उत्तमं च तदहश्चेति विशेषण समासः । ' राजाहस्सखिभ्यष्टच्' इति टच् । 'अह्नष्टखोरेव' इति प्रकृतिसूत्रेण टिलोपः, 'रात्राह्रा हाः पुंसि' इति पुंस्त्वम् । ख उदाहरतिद्वे नी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः परिक्रीत इत्यर्थः । द्वहीन इत्यत्र प्रक्रियां दर्शयति-तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत आह-तमधीष्ट इत्यादि । तथा च द्वयहन् शब्दात् खस्य ईनादेशे 'अह्नष्टखोरेव' इति टिलोपे
·
to इतिरूपमित्यर्थः । नन्वत्र 'अहोऽह्न एतेभ्यः' इत्यह्नादेशः कुतो न स्यात् । न च खे टिलोपविधिसामर्थ्यान्नाहादेश इति वाच्यम्, अहीन इत्यत्र खे टिलोपविधेः चरितार्थत्वात् इति चेत्, न -- समासान्ते पर एवाह्लादेशविधानात् । प्रकृते तु समासान्तविधेरनित्यत्वाद् 'राजाह स्सखिभ्यः -' इति न टच् । यद्यपि उत्तमाद्द् इत्यत्र द्वयहीन इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धः, तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननु मद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहस्सखिभ्यः -' इति टच् स्यादित्याशङ्कयाहलिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा ति 'ङयाप्प्रातिपदिकात् -' इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराशीति । न चटचि सत्यपि 'यस्येति च' इतीकारलोपे मद्रराज्ञशब्दात् टित्त्वाद् ङीपि मद्रराज्ञीति निर्बाध - मिति वाच्यम्, चि हि सति 'भस्याढे तद्धिते' इति पुंवत्त्वे टिलोपे मद्रराजी इति स्यादिति भावः । अह्नोऽह्न एतेभ्यः । पूर्वसूत्रे अहस्सर्वैकदेशसंख्यातपुण्यशब्दा अह्नष्टखोरेव । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदम् । एवकारस्त्वह्न एव टखयो - रिति विपरीत नियमशङ्कानिरासार्थः । ' आत्माध्वानौ खे' इति प्रकृतिभावविधानेन तन्निरासे प्रतिपत्तिगौरवं स्यादिति भावः । टखोरेवेति किम्, अह्ना निर्वृत्तमाह्निकम् । 'कालात्' इत्यधिकारे 'तेन निर्वृत्तम्' इति ठञ् । टिलोपाभावाद् 'अल्लोपोऽन:' इत्यकारलोपः । उत्तमाह इति । 'सर्वैकदेशसंख्यात - ' इत्यत्र उत्तमशब्दस्यापाठादहा