________________
प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०७
स्याहन्शब्दस्याह्वादेशः स्यात् समासान्ते परे । ७६१ अह्नो ऽदन्तात् । ( ८-४-७) श्रदन्तपूर्वपदस्थाद्रे फात्परस्याऽह्लादेशस्य नस्य णः स्थात् । सर्वाह्नः । पूर्वाह्नः । संख्याताह्नः । द्वयोरह्वोर्भवः, 'कालाट्ठञ्' ( सू १३८१ ) 'द्विगोर्लुगनपत्ये' ( सू १०८०) इति ठञो लुक् द्वयह्नः । स्त्रियामदन्तस्वाट्टाप्, द्वयह्वा । द्वयह्नप्रियः ।
निर्दिष्टाः । तत्र चकारेण संख्याव्यये अनुकृष्टे । अहश्शब्दवर्ज ते सर्वे एतच्छब्देन परामृश्यन्ते, न त्वहश्शब्दः, अहश्शब्दात् परस्य अनुशब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे--सर्वादिभ्य इति । समासान्ते पर इति । एतत् तु प्रकरणाल्लब्धम् । अह्नोऽदन्तात् । 'पूर्वपदात्संज्ञायाम् -' इत्यतः पूर्वपदादित्यनुवृत्तम् अदन्तादित्यत्रान्वेति । ‘रषाभ्यां नो णः -' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम्, तदाह - श्रदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाण इत्यत्र गत्वार्थं षादित्यपि बोध्यम् । समासान्ते पर इति किम् ? द्वे अहनी भृतो द्वयहीनः । अत्र समासान्तविधेरनित्यत्वात् टजभावे अह्नादेशो न । सर्वा इति । सर्वमहरिति विग्रहे 'पूर्वकाल - ' इति समासे ‘राजाहस्सखिभ्यः' इति टच्, अह्नादेशः, णत्वम्, 'रात्राह्नाहाः-' इति पुंस्त्वम् । पूर्वा इति । समासादि सर्वाह्नवत् । संख्याताह्न इति । संख्यातमहरिति विग्रहः । विशेषणसमासः, टच्, अह्नादेशः । निमित्ताभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । संख्यापूर्वस्य उदाहरति-द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच्, ततो भवार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह - स्त्रियामिति । द्वयह्नेति । द्वयोर होर्भवेत्यर्थः । ठञ् लुक् च पूर्ववत् । 'अपरिमाणविस्त-' इति न ङीप् । ठज्निमित्तस्तु ङीप् नेत्यपरिमाणबिस्तेत्यत्रोक्तम् । टचष्टित्त्वेऽप्युपसर्जनत्वात् 'टिड्ढ -' इति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवात्र नास्ति, रात्राह्वाहाः पुंसीत्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । संख्यापूर्वस्योदाहरणान्तरमाह - द्वयह्नप्रिय इति । द्वे
1
देशो न । यहीन इति । समासान्तविधेरनित्यत्वान्न टच् । सति तु तस्मिन्नह्रादेशः प्रसज्येत । न च नान्तस्य खे परे टिलोपविधिसामर्थ्यान्न टजिति वाच्यम्, हीन इयत्र तस्य सावकाशत्वात् । अनित्यत्वादिति । अत्र च लिङ्गं 'शक्तिलाङ्गलाङ्कुश - ' इत्यत्र घटीग्रहणम् । मद्रराशीति । यद्यत्र टच् स्यात्तदा 'भस्याढे -' इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः । अह्नोऽह्न एतेभ्यः । एतच्छब्देन 'अहः सर्वैकदेश-' इति सूत्रस्थाः परामृश्यन्ते । सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च संख्याव्यये अनुकृष्टे तत्र सर्वेषां बुद्धिस्थत्वाविशेषेऽप्यहः शब्द इहं न गृह्यते, असंभवादित्याशयेनाह —– सर्वादिभ्य इति । समासान्ते पर इति । एतच्च