________________
१०८ ]
सिद्धान्तकौमुदी। [तत्पुरुषसमासप्रत्यक्षः । ७५२ सुम्नादिषु च (८-४-३६ ) एषु सत्वं न स्यात् । दीर्घाडी अहनी प्रिये यस्येतिविग्रहः । तद्धितार्थ-' इत्युत्तरपदे द्विगुः, टच् ,अह्लादेश इति भावः। अव्ययपूर्वस्योदाहरति-अत्यह्न इति । अहरतिक्रान्त इति विग्रहः। 'अत्यादयः-' इति समासः।टच् , अहादेश इति भावः। शुभ्नादिषु च। 'रषाभ्याम्-' इत्यतो णं इति 'न भाभूपूकमि-' इत्यतो नेति चानुवर्तते, तदाह-एग्विति । दीर्घाही प्रावृ. डिति । वर्षौँ प्रावृशन्दः स्त्रीलिङ्गः । 'स्त्रियां प्राकृट् स्त्रियां भूम्नि वर्षाः' इत्यप्रकरणाल्लब्धम् । भाष्ये तु अहादेशः प्रत्याख्यातः 'अह एभ्यः अच् स्याट्टचोऽपवादः' इति व्याख्यायाम् , 'अष्टखोरेव' इति नियमाडिलोपाभावे 'अल्लोपोऽनः' इत्यकार: लोपात्सर्वाह इत्यादिरूपसिद्धेः । रेफादिति । यदि तु लक्षे अहस्सु भव इत्यादिव्युत्पत्त्या लाक्षाह्न इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम् । 'रषाभ्याम्-' इत्यधिकारात् । ठओ लुगिति । अणो लुगिति वृत्तिकाराद्युक्तमयुक्तमिति भावः । प्रसङ्गादाह स्त्रियामिति । नन्विह स्त्रीत्वं दुर्लभं 'रात्राहाहाः पुंसि' इति वचनादिति चेत् , मैवम् । सर्वमहः सर्वाह्न इत्यादावुपक्षीणस्य तद्वचनस्य लुप्ततद्धितायामप्रवृत्तेः । “लुपि युक्तवत्-' इति लिङ्गातिदेशो ह्यत्र प्रमाणम् । प्राकृतलिङ्गानुशासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयर्थ्यापत्तेः । अत एव लवणः सूपः, लवणा यवागूरित्यादौ न क्लीबत्वम् । किं च 'द्विगुप्राप्तापन्ना- इत्यादिना परवल्लित्वे प्रतिषिद्धे तदपवादस्य 'रात्राहाहाःइत्यस्याप्राप्तिरेवेति यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंल्लिङ्गः। एवं चात्र भवार्थकतद्धिते लुप्तेऽपि 'यः शिष्यते स लुप्यमानार्थाभिधायी' इति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक् । टाबिति । न चेह ठअन्तत्वाद् डीप् स्यादिति शङ्कयम् , ठमो लुप्तत्वात् । न च प्रत्ययलक्षणम् , वर्णाश्रयत्वात् । ठमओ योऽकारस्तदम्तान्डीबिति तत्र व्याख्यातत्वात् । अत एव वृत्तिकाराद्युक्लाणो लुक्पक्षेऽपि न डीप् , 'अण्योकारः' इति तत्र व्याख्यातत्वात् । न चैवमपि टजन्तत्वान्डीप् स्यादेवेति वाच्यम् ,टचः समासान्ततया तदन्तस्य तद्धितार्थ प्रत्युपसर्जनत्वात् । अत एव हि आपिशलिना प्रोक्तमधीयाना ब्राह्मणी आपिशलेत्युदाहृतं भाष्ये । 'द्विगोः' इति डीप तु न शकष एव , 'अपरिमाण-' इति निषेधात् । अतष्टावेवात्र युक्तस्तथैवोदाहरति-यज्ञेति । 'अहोऽह्न-' इति सूत्रे अहादेशं प्रत्याख्याय 'अप्रत्यन्वव-' इत्यतोऽचमनुवर्त्य 'टजपवादोऽच्' इति व्याचक्षाणस्य भाष्यकारस्य मते तु निर्विवाद एवात्र टाप । कथं तर्हि कालनिर्णयदीपिकायां यहीति प्रयोग इति चेत् । अत्राहुःद्वे अहनी यस्यां तिथाविति बहुव्रीहौ नान्तलक्षणो डीब् बोध्यः । द्वयोरहोर्भव इति व्याख्यानग्रन्थस्तु फलितार्थकथनपरतया ज्ञेय इति । संख्यादिभिन्नस्य तत्पुरुषस्य