SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०६ प्रावृट् । एवं चैतदर्थमह इत्यदम्तानुकरबक्स्वेशो न कर्तव्यः । 'प्रातिपदिकान्त - ' ( सू १०५५ ) इति व्यस्ववारणाय चुम्नादिषु पाठस्यावश्यकत्वात् । श्रदन्तादिति तपरकरयाह-परागतमहः पराङः । ७६३ न संख्यादेः समाहारे । (५-४-८९) समाहारे वर्तमानस्य संख्यादेरादेशो न स्यात् । 'संख्यादेः' इति स्पष्टार्थम् । द्वयोरहोः समाहारो द्वयहः । त्र्यहः । ७६४ उत्तमैकाभ्यां च । (५-४-१०) प्राभ्यामङ्कादेशो न । उत्तमशब्दोऽन्त्यार्थः पुण्यशब्दमाह । 'पुण्यैकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम्। सुदिनशब्दः प्रशस्त 1 मरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति ङीप्, 'अल्लोपोऽनः' इत्युपधालोपः । 'अहोऽदन्तात्' इति णत्वं तु क्षुम्नादित्वान्नेति भावः । ननु क्षुभ्नादिषु दीर्घाहीत्यस्य पाठो व्यर्थः, 'अहोऽदन्तात्' इत्यत्र हि श्रह इत्यदन्तात् षष्ठयर्थे प्रथमा । श्रदन्तपूर्वदस्थान्निमित्तात् परस्य अह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाहीत्यत्र च श्रहादेशस्याप्रसक्त्या श्रदन्तत्वाभावादेव णत्वस्याप्राप्तौ किं तन्निवृत्त्यर्थेन सुभ्नादिपाठेनेत्यतश्राह एवं चेति । एवं सति - दीर्घाही - शब्दस्य क्षुभ्नादिपाठे सति एतदर्थम् -'अहोऽदन्तात्' इति णत्वनिवृत्त्यर्थम्, श्रह्न इत्यस्य दन्तत्वानुसरणं षष्ठपर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमि - त्यर्थः, क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्रीत्यस्य णत्वाभावाय किं नादिपाठोऽभ्युपगम्यताम् उत् अह्न इत्यस्य दन्तत्वमित्यत्र विनिगमनाविरह . इत्यत आह- प्रातिपदिकान्तेति । अथ 'अहोऽदन्तात्' इत्यत्र पूर्वपदविशेषणे अदन्तादिति तपरत्वस्य प्रयोजनमाह - श्रदन्तादिति । पराह्न इति । 'प्रादयो गताद्यर्थे-' इति समासः, टच्, अव्ययात्परत्वादह्णादेशः । परेति पूर्वपदस्यादन्तत्वाभावाद् न णत्वमिति भावः । न संख्यादेः समाहारे । अह्नादेश इति । 'अहोऽह्नः-’ इत्यतस्तदनुवृत्तेरिति भावः । ननु संख्यादिभिन्नस्य तत्पुरुषस्य समाहारे प्रभावादेव सिद्धे संख्यादेरिति व्यर्थमित्यत आह-स्पष्टार्थमिति । द्वयह इति । समाहारे द्विगुः । टच्, 'रात्राहा -' इति पुंस्त्वम् । संख्यादित्वात्प्राप्तस्य श्रह्लादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्वयहवत् । उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याद्दन्शब्दस्य प्रह्लादेशाप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह-- उत्तमशब्द इति । उत्तमशब्दः अन्त्ये वर्तते । यथा द्वादशाहे 'उदयनीयातिरात्र उत्तममहः' इति अन्त्यमिति गम्यते । 'अहस्सर्वैकदेश संख्यातपुण्याद्-' इत्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हि पुण्यैकाभ्याम् इत्येव कुतो न सूत्रितमित्याशङ्कय स्वतन्त्रेच्छ्रुत्वान्महर्षेरित्याह-- पुण्यैकाभ्यामित्येवेति । 1
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy