SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास वाची । एकाहः । ' उत्तमग्रहणमुपान्त्यस्यापि सग्रहार्थम्' इत्येके । संख्याताहः । ७६५ अग्राख्यायामुरसः । ( ५-४-६३) टकस्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः । ७६६ अनोश्मायस्सरसां जातिसंशयोः । (५-४-६४ ) टकस्याज्जातौ संज्ञायां च । उपानसम्, अमृताश्मः, कालायसम्, मण्डूकसरसम् इति जातिः । महानसम्, पिण्डाश्मः, लोहितायसम्, जल्लसरसम् इति संज्ञा । ७९७ ग्रामकौठाभ्यां च तक्ष्णः । ( ५-४ - ६५ ) ग्रामस्य तचा पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः, 'पुण्यसुदिनाभ्यां च' इति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहे 'पूर्वकाल -' इति समासः । टच्, टिलोपः । उपान्त्यस्यापीति । लक्षणयेति शेषः । पुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् उत्तमं च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । संख्याताह इति । संख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । ' रात्राहा -' इति पुंस्त्वम् । उपान्त्य संख्यातशब्दपूर्वकत्वाद् नाह्रादेशः । अप्राख्यायामुरसः । शेषपूरणेन सूत्रं व्य चष्टे -- टच् स्यादिति । पञ्चम्यर्थे सप्तमी । अयं प्रधानं तद्वाची य उरश्शब्दः तदन्तात् तत्पुरुषात् टच् स्यादित्यर्थः । 'अध्याख्यायाम्' इति पाठान्तरम् । अग्रे भवमध्यम्, मुख्यमिति यावत् । अश्वानामुर इवेति । उरो यथा प्रधानं तथेत्यर्थः । उरश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अश्वोरसमिति । उरश्शब्देन मुख्यवाचिना षष्ठीसमासः, टच्, 'परवल्लिङ्गम् -' इति नपुंसकत्वम् । श्राख्यायामिति किम् ? देवदत्तस्योरः देवदत्तोरः । अनोऽश्मायस् । उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतः श्रश्मेति विग्रहः । टचि, टिलोपः । कालायसमिति । कालम् इति विग्रहः, टच् 'परवल्लिङ्गम् -' इति नपुंसकत्वम् । मण्डूकसरसमिति । षष्ठीसमासः । टच् । जातिविशेषा एते । महानसम्, पिण्डाश्मः, लोहितायसम्, जलसरसमिति संज्ञाविशेषाः । ग्रामकौटाभ्यां च तक्ष्णः । श्रभ्यां टजिति । 1 समाहारे वृत्त्यसंभवादाह-—स्पष्टार्थमिति । पुण्याहमिति । 'पुण्यसुदिनाभ्याम् - ' इति क्लीबत्वं वक्ष्यति । उपान्त्यस्यापीति । यथा 'प्रथमयोः -' इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामर्थ्यादन्त्ययोर्द्वयोर्ग्रहणम् । उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः । अग्राख्यायाम् । पञ्चम्यर्थे सप्तमी । प्रधानम् । अग्रवाची य उरःशब्दस्तदन्तात्तत्पुरुषाट्टच् स्यात् । अग्राख्यायां किम्, देवदत्तस्योरो देवदत्तोरः । ग्रामकौटाभ्याम् । ‘जातिसंज्ञयोः' इति नानुवर्तते । ग्रामेति किम् राज्ञस्तता राजता । श्रतिश्व इति । श्वानमतिक्रान्तो ?
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy