________________
प्रकरणम् १७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् । ६५४ उपसर्जनं पूर्वम् । ( २ - २ - ३० ) समासे उपसर्जनं प्राक्प्रयोज्यम् । ६५५ एकविभक्ति चापूर्वनिपाते । ( १-२-४४ ) विग्रहे यनियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात्, न
सति 'सुपो धातु-' इति प्रथमाया लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्दिष्टम् इति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जत्वं स्यात् । श्रतो व्याचष्टेसमासशास्त्र इति । समासपदं समासविधायकशास्त्रपरमिति मावः । एवं च 'द्वितीया श्रित -' इति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवं च 'अव्ययम् -' इति समासविधावपेत्यस्य प्रथमानिष्र्ष्टित्वादुपसर्जनत्वं स्थितम् । उपसर्जनं पूर्वम् । प्राक्कडारात् समास इत्यधिकृतम्। समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते, तदाह – समासे उपसर्जनं प्राक् प्रयोज्यमिति । पूर्वमित्यस्य पूर्व प्रयोज्यमित्यर्थ इति भावः । एवं च प्रकृते अपेत्यस्य पूर्व प्रयोगनियमः सिद्धः । श्रपदिशा इति स्थितम् । श्रत्र दिशाशब्दस्यापि उपसर्जनत्वमाह – एकविभक्ति । 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्यतः समास इति उपसर्जनमिति चानुवर्तते । समास इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकविभक्ति, नियतविभक्तिकमिति यावत् । एवं च विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्य उपसर्जनं स्यादित्यर्थः । फलितमाह - विग्रहे यन्नियतेति । निष्कौशाम्बिशब्द उदाहरणम् । तत्र कौशाम्ब्या निष्क्रान्तो निष्कान्तं निष्क्रान्तेन निष्क्रान्ताय निष्कन्ताद् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशाम्बि निष्कौशाम्बिना इत्यादि, इति स्थितिः । अत्र कौशाम्बीशब्द एव विप्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति 'प्रथमानिर्दिष्टम् -' इत्यनेनोपसर्जनत्वा प्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्य अनेन उपसर्जनत्वेऽपि न पूर्वनिपातः । तत्तद्विभक्तयन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् । ‘तुल्यार्थैः-' इति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इति 'अनेकम् -' इति सूत्रे भाष्ये स्थितम् । प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात् समासविधौ प्रथमानिर्दिष्टत्वाभावेऽपि
र्षिते समासे यत्प्रथमान्तमिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वति - प्रसङ्ग इत्याशयेनाह—–समासशास्त्र इति । विग्रह इति । अनुवर्तमानेन समास