________________
८]
सिद्धान्तकौमुदी। [अव्ययीभावतु तस्य पूर्वनिपातः । ६५६ गोस्त्रियोरुपसर्जनस्य । (१-२-४८) उप. सर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह स्वः स्यात् । 'अव्ययीभावश्च' (सू ४५१) इत्यव्ययत्वम् । ६५७ नाव्य यीभावादतोऽम्त्व. पञ्चम्याः । (२-४-८३) अदन्तादव्यीभावारसुपो न लुक् तस्य तु पञ्चमी विना अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गोस्त्रियोः । ‘ह्रस्वो नपुंसके प्रातिपदिकस्य' इत्यतो ह्रस्व इति प्रातिपदिकस्येति चान् वर्तते। उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीः त्ययो गृह्यते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम्। तदन्तविधिः। तदाह--उपसर्जनमित्यादिना। अत्र च शास्त्रीयमेवोपसर्जनं गृह्यते, न त्वप्रधानमात्रम् , कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चत्यव्ययत्वमिति । तथा च अव्ययीभावसमासादुत्पन्नानां सुपाम् 'अव्ययादाप्सुपः' इति लुक् स्यादिति शयिामाह-नाव्ययीभावात् । अम् तु अपञ्चम्या इति छदः । 'नाव्ययीभावादतः' इत्येकं वाक्यम् । ‘ण्यक्षत्रियार्ष-' इत्यतो लुगित्यनुवर्तते। 'अव्ययादाप्सुपः' इत्यतः सुप इति च । श्रता अव्ययीभावो विशेष्यते, तदन्तविधिः, तदाह-अदन्तादव्ययीभावात् सुपो न लुगिति । अम् तु अपञ्चम्या इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपः श्रमादेशः स्यात् । पञ्चम्यास्तु अम् न भवतीति लभ्यते । प्रहणेन विग्रहो लक्ष्यत इति भावः। न तु तस्येति । 'अनन्तर य-' इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते। तेन कुमारीश्रिर इत्यादौ न दोषः । गोस्त्रियोः। उपसर्जनस्येति गोत्रियोर्विशेषणम् । एकवचनं तु प्रत्येकाभिप्रायेण । गोत्रीभ्यां तु प्रातिपदिकं विशेष्यते । विशेषणेन तदन्तविधिरि याशयेनाह-उपसजनं य इति । उपसर्जनमिह शास्त्रीयं गृह्यते, न त्वप्रधानलचरणम् । तेन कुमारीवाचरन्ब्राह्मणः कुमारीत्यत्र न दोष इत्युक्तम् । स्त्रीप्रत्ययान्तमिति । त्यधिकारोक्तटाबाद्यन्तमित्यर्थः । तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः । नन्त वमपि राजकुमारीपुत्र इत्यादावतिप्रसङ्ग इति चेत् , अत्राहुः-उपसर्जनस्य ससंबन्धिः तया यस्य प्रातिपदिकस्य हखो विधीयते तदर्थ प्रति यद्युत्तरपदभूतयो!स्त्रियोर्गुणीभावस्तदैव ह्रखत्वमिति भाष्यादावुक्तत्वान दोषः । भाष्यादावापे उत्तरपदभूतयोरित्यर्थ नाभस्तु 'कृत्तद्धित-' इत्यतः समासपदानुवर्तनादिति बोध्यमिति । नाव्ययी। अत्र 'प्रपञ्चम्याः' इति प्रतिषेधोऽनन्तरत्वादम एव, न तुव्यवहितस्यालुकोऽपि। अमुमेवार्थ द्योतयितुं सूत्रे तुशब्दः। तस्य पञ्चमी विनेति । एवं चादन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो